SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ प्रथम पर्व त्रिषष्टिशलाका पुरुषचरिते ॥१५०॥ प्रतिबोध्याऽऽगतान् भव्यान्, परिविवजिपून सतः। मरीचिःप्रेषयामास, समीपे स्वामिपादयोः॥२७॥ प्रतिबुध्यागतानां च, तेषां दीक्षा स्वयं ददौ । निष्कारणोपकारैकबन्धुः खाम्वृषभध्वजः ॥२८॥ मरीचेः खामिना सार्द्ध, एवं विहरतोऽन्यदा । शरीरे रोग उत्पेदे, काष्ठे घुण इवोल्वणः॥२९॥ पालम्बभ्रष्टकपिवद्, व्रतभ्रष्टो बहिष्कृतः । स्खयथ्यसंयतैनँव, मरीचिः प्रत्यपाल्यत ॥ ३०॥ अजातप्रतिचारोऽसौ, बबाधे व्याधिनाधिकम् । इक्षवाट इवाऽऽरक्षवर्जितः सूकरादिना ॥ ३१ ॥ रोगे निपतितो घोरे, महारण्य इवाऽसखा । एवं विचिन्तयामास, मरीचिनिजचेतसि ॥ ३२॥ __अहो! मम भवेऽत्रैवोदीर्ण कर्म शुभेतरम् । मां यदेते परमिवोपेक्षन्ते खेऽपि साधवः॥ ३३ ॥ यद्वा दिवाकरस्येवोलूकेऽनालोककारिणः । दोषो न कस्यापि मयि, साधोरप्रतिचारिणः ॥ ३४ ॥ सावधविरतास्ते हि, सावधनिरतस्य मे । वैयावृत्यं कथं कुर्युर्लेच्छस्येव महाकुलाः ॥३५॥ न तान् कारयितुं युक्तं, वैयावृत्यं ममापि हि । व्रतभ्रंशोत्थपापस्य, सन्तानाय हि तद् भवेत् ॥ ३६॥ तदात्मप्रतिचाराय, मन्दधर्माणमात्मवत् । अन्वेषयामि कमपि, युज्यन्ते हि मृगैर्मृगाः॥ ३७॥ मरीचिश्चिन्तयन्नेवमुल्लाघः कथमप्यभूत् । कालादनूपरत्वं हि, व्रजत्यूपरभूरपि ॥ ३८॥ अन्यदा खामिनः पादपद्मान्ते दूरभव्यकः । कुतोऽपि कपिलो नाम, राजपुत्रः समाययौ ॥३९॥ विश्वोपकारकरणप्रावृषेण्यपयोमुचः । कुर्वतो देशनां भर्तुर्धर्मस्तेन च शुश्रुवे ॥४०॥ ज्योत्स्नेव चक्रवाकायोलूकायेव दिवामुखम् । प्रक्षीणभागधेयाय, रोगितायेव भेषजम् ॥ ४१॥ * इत आरभ्य ५२ पर्यन्तं श्लोकाः सं १, खपुस्तकयोर्न सन्ति ॥ १ असहायः। २ स्वकीया अपि। ३ नीरोगः । सर्गः ऋषभजिनभरतचक्रि चरितम् । रस्सल मरीचिशरीरे पीडा, कपिलस्यागमनं च। ॥१५॥ Jain Education into For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy