SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ इतः कुलायमलिनमितश्चाऽसुकरं व्रतम् । इतस्तटीतः शार्दूलः, सङ्कटे पतितोऽसि हा!॥१३॥ आ ज्ञातमथवाऽस्तीह, सुषमो विषमेऽपि हि । पर्वते दण्डकपथ, इव पन्था अयं खलु ॥१४॥ मनोवाकायदण्डानां, जयिनः श्रमणा ह्यमी । तैरहं विजितोऽस्मीति, भविष्यामि त्रिदण्डिकः॥१५॥ अमी मुण्डाः शिरकेशलुश्चनेन्द्रियनिर्जयैः । अहं पुनर्भविष्यामि, क्षुरमुण्डशिखाधरः ॥१६॥ स्थूलसूक्ष्मप्राणिवधादिभ्योऽमी विरताः सदा । स्थूलप्राणातिपातादिविरतिर्भवतान्मम ॥ १७॥ एते ह्यकिश्चना मेऽस्तु, स्वर्णमुद्रादि किश्चन । एतेऽनुपानेहोऽहं तु, परिधास्थाम्युपानही ॥१८॥ एतेष्टादशशीलासहस्याऽतिसुगन्धयः । शीलेनाऽहं तु दुर्गन्ध, आदास्ये चन्दनादिकम् ॥ १९॥ अपमोहाः साधवोऽमी, मोहच्छन्नोऽस्म्यहं ततः । तच्चिद्रं धारयिष्यामि, च्छत्रकं मस्तकोपरि ॥२०॥ श्वेतवस्त्रधरा एते, कषायकलुषस्त्वहम् । तत्स्मृत्यै परिधास्यामि, काषायाण्यंशुकान्यहम ॥२१॥ पापभीताः प्राज्यजीवं, जलारम्भं त्यजन्त्यमी । अस्तु स्नानं च पानं च, पानीयेन मितेन मे ॥२२॥ खबुद्ध्या कल्पयित्वैवं, मरीचिलिङ्गमात्मनः । बभार तादृशश्चाऽथ, विजहे स्वामिना सह ॥ २३ ॥ नाऽश्वो न च खरः किन्तूभयांशोऽश्वतरो यथा । न संयतो न च गृही, मरीचिरभवत् तथा ॥२४॥ महर्षिषु विजातीयं, मरालेष्विव वायसम् । तं निरीक्ष्य जनो भृयान् , धर्म पप्रच्छ कौतुकात् ॥ २५ ॥ मूलोत्तरगुणप्रष्ठं, साधुधर्ममुपादिशत् । स्वयं च तदनाचारे, पृष्टोऽशक्तिं जगाद सः ॥ २६ ॥ १ काञ्चनादिरहिताः । २ चर्मपादुकारहिताः। ३ मोहरहिताः। ४ वस्त्राणि । ५ हंसेषु । ६ काकम् । Jain Education inter-KHE For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy