SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥१४९॥ Jain Education International षष्ठः सर्गः । इतश्च स्वामिनः शिष्यो, मरीचिर्भरतात्मजः । एकादशानामङ्गानामध्येता निजनामवत् ॥ १ ॥ सहितः श्रामणगुणैः, सुकुमारो निसर्गतः । कलभो यूथपेनेव, विहरन् खामिना समम् ॥ २ ॥ ग्रीष्मे मध्यन्दिने भीष्मैर्दिवाकरकैरोत्करैः । नाडीन्धमैरिवाऽऽध्मातेष्वभितो मार्गपांशुषु ॥ ३ ॥ अदृश्याभिर्हुतवहज्वालाभिरिव सर्वतः । महावात्याभिरुष्णाभिः, खिलीभूतेषु वर्त्मसु ॥ ४ ॥ आपादमस्तकोद्भूतस्वेदधारानिरन्तरे । अग्निर्तप्तेषदाद्वैधः सधीचि निजर्वर्ष्मणि ॥ ५ ॥ पयःसंसिक्तसंशुष्कचर्मगन्धवदुद्धते । प्रखेदक्लिन्नवस्त्राङ्गमलगन्धे च दुःसहे ॥ ६ ॥ पादयोर्दह्यमानश्चाऽवतप्ते नकुलस्थितम् । नाटयंस्तृष्णयाऽऽक्रान्तचेतसैवमचिन्तयत् ॥ ७ ॥ [ सप्तभिः कुलकम् ] केवलदर्शनज्ञानार्केन्दुमेरुमहीभृतः । ऋषभखामिनस्तावदस्मि पौत्रो जगद्गुरोः ॥ ८ ॥ अखण्डषदखण्डमहीमण्डलाखण्डलस्य च । विवेकैकनिधेस्तस्य पुत्रोऽस्मि भरतेशितुः ॥ ९ ॥ चतुर्विधस्य सङ्घस्याऽवक्षं च स्वामिनोऽन्तिके । प्रात्राजिषं पञ्चमहाव्रतोच्चारणपूर्वकम् ॥ १० ॥ एवं सति स्थानतोऽस्माल्लञ्जयार्गलितस्य मे । न युज्यते गृहे गन्तुं वीरस्येव रणाजिरात् ॥ ११ ॥ श्रम गुणभारं च महाद्रिमिव दुर्वहम् । मुहूर्त्तमपि चोद्वोढुमलमस्मि न साम्प्रतम् ॥ १२ ॥ * करैरसौ खं ॥ १ अतितेपदाकाष्ठसमाने । २ स्वशरीरे । ३ प्रत्यक्षम् । For Private & Personal Use Only प्रथमं पर्व षष्ठः सर्गः ऋषभजिन भरतचक्र चरितम् । मरीचेर्वेष परिवर्तनम् । ॥१४९॥ www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy