Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
प्रथम पर्व
त्रिषष्टिशलाका
पुरुषचरिते
॥१५०॥
प्रतिबोध्याऽऽगतान् भव्यान्, परिविवजिपून सतः। मरीचिःप्रेषयामास, समीपे स्वामिपादयोः॥२७॥ प्रतिबुध्यागतानां च, तेषां दीक्षा स्वयं ददौ । निष्कारणोपकारैकबन्धुः खाम्वृषभध्वजः ॥२८॥ मरीचेः खामिना सार्द्ध, एवं विहरतोऽन्यदा । शरीरे रोग उत्पेदे, काष्ठे घुण इवोल्वणः॥२९॥ पालम्बभ्रष्टकपिवद्, व्रतभ्रष्टो बहिष्कृतः । स्खयथ्यसंयतैनँव, मरीचिः प्रत्यपाल्यत ॥ ३०॥ अजातप्रतिचारोऽसौ, बबाधे व्याधिनाधिकम् । इक्षवाट इवाऽऽरक्षवर्जितः सूकरादिना ॥ ३१ ॥ रोगे निपतितो घोरे, महारण्य इवाऽसखा । एवं विचिन्तयामास, मरीचिनिजचेतसि ॥ ३२॥ __अहो! मम भवेऽत्रैवोदीर्ण कर्म शुभेतरम् । मां यदेते परमिवोपेक्षन्ते खेऽपि साधवः॥ ३३ ॥ यद्वा दिवाकरस्येवोलूकेऽनालोककारिणः । दोषो न कस्यापि मयि, साधोरप्रतिचारिणः ॥ ३४ ॥ सावधविरतास्ते हि, सावधनिरतस्य मे । वैयावृत्यं कथं कुर्युर्लेच्छस्येव महाकुलाः ॥३५॥ न तान् कारयितुं युक्तं, वैयावृत्यं ममापि हि । व्रतभ्रंशोत्थपापस्य, सन्तानाय हि तद् भवेत् ॥ ३६॥ तदात्मप्रतिचाराय, मन्दधर्माणमात्मवत् । अन्वेषयामि कमपि, युज्यन्ते हि मृगैर्मृगाः॥ ३७॥ मरीचिश्चिन्तयन्नेवमुल्लाघः कथमप्यभूत् । कालादनूपरत्वं हि, व्रजत्यूपरभूरपि ॥ ३८॥
अन्यदा खामिनः पादपद्मान्ते दूरभव्यकः । कुतोऽपि कपिलो नाम, राजपुत्रः समाययौ ॥३९॥ विश्वोपकारकरणप्रावृषेण्यपयोमुचः । कुर्वतो देशनां भर्तुर्धर्मस्तेन च शुश्रुवे ॥४०॥ ज्योत्स्नेव चक्रवाकायोलूकायेव दिवामुखम् । प्रक्षीणभागधेयाय, रोगितायेव भेषजम् ॥ ४१॥ * इत आरभ्य ५२ पर्यन्तं श्लोकाः सं १, खपुस्तकयोर्न सन्ति ॥ १ असहायः। २ स्वकीया अपि। ३ नीरोगः ।
सर्गः ऋषभजिनभरतचक्रि चरितम् ।
रस्सल
मरीचिशरीरे
पीडा, कपिलस्यागमनं च।
॥१५॥
Jain Education into
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410