Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 363
________________ समवसरणम्। कौसुम्भवाससमिव, रक्ताशोकवनैः क्वचित् । तमालतालहिन्तालैनीलाम्बरमिव क्वचित् ॥ ९९॥ पीतांशुकमिव क्वाऽपि, किंशुकैः कुसुमाश्चितैः । श्वेतवस्त्रमिव क्वापि, मालतीमल्लिकावनैः ॥१०॥ अष्टयोजनमानेनोच्छ्रायेणाऽभ्रंलिहं ततः। गिरि गिरिगरिष्ठस्तमारुरोह जगद्गुरुः ॥१०१॥ [चतुर्विंशत्या कुलकम् ] ___ मरुत्कीर्णैर्दुकुसुमैस्तथा निर्झरवारिभिः । त्रिजगत्स्वामिनः सोऽद्रिरघपाये व्यधादिव ॥ १०२॥ अष्टापदगिरिः सोऽथ, खामिपादैः पवित्रितः । न हीनमान्यभून्मेरोस्तजन्मस्नानपावितात् ॥१०३॥ प्रहृष्टपरपुष्टादिकूजितव्याजतो मुहुः । जगाविव जगन्नाथगुणानष्टापदाचलः ॥ १०४ ॥ क्षेत्रे योजनमात्रेऽथ, तृणकाष्ठादिकं क्षणात् । वर्द्धनीजीविन इव, जहुर्वायुकुमारकाः॥१०५॥ विकृत्य सद्योऽप्यभ्राणि, पानीयमहिषानिव । गन्धाम्बुभिस्तां सिपिचुः, क्षिति मेघकुमारकाः ॥१०६॥ स्वर्णरत्नशिलाभिव, विशालाभिर्दिवौकसः । सममादर्शतलवद्, बबन्धुर्धरणीतलम् ॥१०७॥ पञ्चवर्णाः शक्रधनुःखण्डोत्करविडम्बिनीः । जानुदनीः सुमनसो, ववृषुर्व्यन्तरामराः ॥१०८॥ व्यन्तरास्तत्र कालिन्दीवीचिश्रीतस्करान् व्यधुः । द्रुदलैस्तोरणानार्दैः, ककुप्सु चतसृष्वपि ॥ १०९॥ तोरणान्यभितः स्तम्भेष्वराजन्मकराकृतिः । सिन्धूभयतटस्थास्नुमकरश्रीविडम्बिनी ॥ ११ ॥ तेषु श्वेतातपत्राणि, चत्वारि च चकाशिरे । दिग्देवीनां चतसृणां, राजता इव दर्पणाः ॥१११ ॥ _ * °कदलैः सं १॥ १ गगनपर्यन्तोन्नतम् । + गरिष्ठं तसं १॥ २ अर्घ्यपाद्योदके। ३ प्रहर्षितकोकिलादिकूजितमिषात् । ४ मार्जनीजीविनः । ५ जानुप्रमाणाः। ६ पुष्पाणि । ७ यमुना। अयं श्लोकः खंपुस्तके पतितः । Jain Education Internationa For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410