________________
समवसरणम्।
कौसुम्भवाससमिव, रक्ताशोकवनैः क्वचित् । तमालतालहिन्तालैनीलाम्बरमिव क्वचित् ॥ ९९॥ पीतांशुकमिव क्वाऽपि, किंशुकैः कुसुमाश्चितैः । श्वेतवस्त्रमिव क्वापि, मालतीमल्लिकावनैः ॥१०॥ अष्टयोजनमानेनोच्छ्रायेणाऽभ्रंलिहं ततः। गिरि गिरिगरिष्ठस्तमारुरोह जगद्गुरुः ॥१०१॥
[चतुर्विंशत्या कुलकम् ] ___ मरुत्कीर्णैर्दुकुसुमैस्तथा निर्झरवारिभिः । त्रिजगत्स्वामिनः सोऽद्रिरघपाये व्यधादिव ॥ १०२॥ अष्टापदगिरिः सोऽथ, खामिपादैः पवित्रितः । न हीनमान्यभून्मेरोस्तजन्मस्नानपावितात् ॥१०३॥ प्रहृष्टपरपुष्टादिकूजितव्याजतो मुहुः । जगाविव जगन्नाथगुणानष्टापदाचलः ॥ १०४ ॥
क्षेत्रे योजनमात्रेऽथ, तृणकाष्ठादिकं क्षणात् । वर्द्धनीजीविन इव, जहुर्वायुकुमारकाः॥१०५॥ विकृत्य सद्योऽप्यभ्राणि, पानीयमहिषानिव । गन्धाम्बुभिस्तां सिपिचुः, क्षिति मेघकुमारकाः ॥१०६॥ स्वर्णरत्नशिलाभिव, विशालाभिर्दिवौकसः । सममादर्शतलवद्, बबन्धुर्धरणीतलम् ॥१०७॥ पञ्चवर्णाः शक्रधनुःखण्डोत्करविडम्बिनीः । जानुदनीः सुमनसो, ववृषुर्व्यन्तरामराः ॥१०८॥ व्यन्तरास्तत्र कालिन्दीवीचिश्रीतस्करान् व्यधुः । द्रुदलैस्तोरणानार्दैः, ककुप्सु चतसृष्वपि ॥ १०९॥
तोरणान्यभितः स्तम्भेष्वराजन्मकराकृतिः । सिन्धूभयतटस्थास्नुमकरश्रीविडम्बिनी ॥ ११ ॥ तेषु श्वेतातपत्राणि, चत्वारि च चकाशिरे । दिग्देवीनां चतसृणां, राजता इव दर्पणाः ॥१११ ॥ _ * °कदलैः सं १॥ १ गगनपर्यन्तोन्नतम् । + गरिष्ठं तसं १॥ २ अर्घ्यपाद्योदके। ३ प्रहर्षितकोकिलादिकूजितमिषात् । ४ मार्जनीजीविनः । ५ जानुप्रमाणाः। ६ पुष्पाणि । ७ यमुना। अयं श्लोकः खंपुस्तके पतितः ।
Jain Education Internationa
For Private & Personal Use Only
www.jainelibrary.org.