________________
प्रथमं पर्व
त्रिषष्टि
शलाकापुरुषचरिते ॥१५॥
सगे: ऋषभजिन
भरतचक्रि|चरितम् ।
रेजुर्ध्वजपटास्तेषु, समीरणतरङ्गिताः। आकाशगङ्गातरलतरङ्गभ्रान्तिदायिनः ॥ ११२॥ अधोऽधस्तोरणान्यासन् , मौक्तिकस्वस्तिकादयः । जगतो मङ्गलमिहेत्यालेख्यलिपिविभ्रमाः॥११३॥ तत्रोया रचिते पीठे, वप्रं वैमानिकाः सुराः । रत्नाकरश्रीसर्वस्खमिव रत्नमयं व्यधुः॥११४ ॥ तैश्चके तत्र माणिक्यकपिशीर्षपरम्परा । चन्द्रचण्डांशुमालेव, मानुषोत्तरसीमनि ॥११५॥ बलयीकृत्य हेमाद्रिशृङ्गमेकमिवाऽमलम् । प्राकारं मध्यमं ज्योतिष्पतयः काञ्चनं व्यधुः॥११६॥ चक्रिरे कपिशीर्षाणि, तत्र रत्नमयानि ते । सचित्राणीव सुचिरं, प्रेक्षकप्रतिबिम्बितैः ॥ ११७॥ विदधुर्भवनाधीशा, रौप्यं वप्रमधस्तनम् । कुण्डलीभूतशेषाहिभोगभ्रमविधायिनम् ॥ ११८ ॥ चक्रुस्ते काञ्चनीं तत्र, कपिशीर्षपरम्पराम् । क्षीरोदेतीरनीरस्थसुपर्णश्रेणिविभ्रमाम् ॥ ११९ ॥ वप्रे वने च चत्वारि, चक्रिरे गोपुराणि तैः । तदा विनीतानगरीप्राकारे गुरकैरिव ॥ १२० ॥ गोपुरेषु च माणिक्यतोरणान्यक्रियन्त तैः । प्रसारिभिः शतगुणानीव खैरेव रश्मिभिः ॥ १२१ ॥ द्वारे द्वारे न्यधीयन्त, व्यन्तरैधूपचारकाः । चक्षूरक्षाञ्जनलेखासदृग्धूपोर्मिधारिणः ॥ १२२ ॥ मध्यवप्रान्तरे पूर्वोदीच्या विश्रान्तये विभोः । देवच्छन्दं व्यधुर्देवा, देवालयमिवौकसि ॥ १२३ ॥ त्रिकोशमानश्चैत्यद्रर्विचके व्यन्तरामरैः । अन्तःसमवसरणं, पोतान्तखि केपकः ॥ १२४ ॥ पीठं रत्नमयं चक्रुस्तेऽथ चैत्यतरोरधः। तं मूलतः पल्लवितमिव कुर्वाणमंशुभिः ॥ १२५॥ * मूर्द्धनि खंता ॥ १ मण्डलीकृत्य । २ क्षीरसमुद्रतटजलस्थगरुडपतिविभ्रमाम् । ३यक्षैः । ४ किरणैः। खायितधू | खंता। ५प्रवहणान्तः कृपस्तम्भ इव । ६ चैत्यतरुम् ।
समवसरणम्।
॥१५३॥
Jan Education International
For Private & Personal use only
www.jainelibrary.org