________________
Jain Education Intert
मृज्यमानं मुहुश्चैत्यशाखिशाखान्तपल्लवैः । तस्योपरिष्टात् पीठस्य, ते रत्नच्छन्दकं व्यधुः ॥ १२६ ॥ तस्यान्तः प्राक् साङ्घ्रिपीठं, रत्नसिंहासनं व्यधुः । कर्णिकामिव विकचाम्भोजकोशस्य मध्यतः ॥ १२७ ॥ छन्दकस्योपरि च्छत्रत्रितयं ते विचक्रिरे । आवर्त्तितं त्रिपथगास्रोतस्त्रयमिवाऽभितः ॥ १२८ ॥ कुतोऽपि हि समाहृत्य, पूर्वसिद्धमिव क्षणात् । इत्थं समवसरण मस्थाप्यत सुरासुरैः ॥ १२९ ॥
ततश्च पूर्वद्वारेण, मोक्षद्वारं जगत्पतिः । भव्यानां हृदयमिव, प्रविवेश तदुच्चकैः ॥ १३० ॥ तत्कालं श्रवणोत्तंसीभवच्छाखान्तपल्लवम् । ततः प्रदक्षिणीचक्रे, तमशोकतरुं प्रभुः ॥ १३१ ॥ नमस्तीर्थायेति वदन्, पूर्वाशाभिमुखोऽथ तत् । राजहंस इवाम्भोजं, भेजे सिंहासनं विभुः ॥ १३२ ॥ दिक्ष्वन्याखपि तिसृषु, रूपाणि परमेष्ठिनः । रत्नसिंहासनस्थानि, विचक्रुत्र्यंन्तरामराः ॥ १३३ ॥ पूर्व द्वाराऽविशन् साधु-साध्वी- वैमानिक स्त्रियः । प्रदक्षिणीकृत्य नेमुर्जिनं तीर्थं च भक्तितः ॥ १३४ ॥ प्राकारे प्रथमे तत्र, धर्माराममहाद्रुमाः । पूर्वदक्षिणदिश्यासाञ्चक्रिरे सर्वसाधवः ॥ १३५ ॥ तेषां च पृष्ठतस्तस्थुरुर्द्धा वैमानिकस्त्रियः । तासां च पृष्ठतस्तस्थुस्तथैव त्रैतिनीगणाः ॥ १३६ ॥ प्रविश्य दक्षिणद्वारा, प्राग्विधानेन नैर्ऋते । तस्थुर्भवनेशज्योतिर्व्यन्तराणां स्त्रियः क्रमात् ॥ १३७ ॥ प्रविश्य पश्चिमद्वारा, तद्वनत्वाऽवतस्थिरे । मरुद्दिशि भवनेशज्योतिष्कव्यन्तराः क्रमात् ॥ १३८ ॥ तदा च नाथं समवसृतं विज्ञाय वासवः । छादयन् द्यां विमानौधैस्तत्र सत्वरमाययौ ॥ १३९ ॥ प्रविश्योदीच्यद्वारेण, स्वामिनस्त्रिः प्रदक्षिणाम् । कृत्वा नत्वा च सुत्रीमा, भक्तिमानेवमस्तवीत् ॥ १४० ॥ १ गङ्गाप्रवाहत्रयम् । २ प्रथम निष्पन्नमिव । ३ पूर्वदिशाभिमुखः । ४ धर्मोद्यानमहावृक्षाः । ५ साध्यः । ६ इन्द्रः ।
For Private & Personal Use Only
समवसरणम् ।
www.jainelibrary.org