SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ प्रथमं पर्व त्रिषष्टिशलाका पुरुषचरिते ॥१५४॥ सगे: ऋषभजिनभरतचक्रिचरितम् । अपि सर्वात्मना ज्ञातुमशक्या योगिपुङ्गवैः। स्तुत्याः क ते गुणाः? स्तोता, क्वाऽहं नित्यप्रमद्वरः॥१४१॥ तथापि नाथ ! स्तोष्यामि, यथाशक्ति भवद्गुणान् । दीर्घऽध्वनि व्रजन खञ्जः, किं केनापि निवार्यते ? ॥१४२॥ भवदुःखातपक्लेशविवशानां शरीरिणाम् । छत्रच्छायायमानाङिच्छाय! त्रायख नः प्रभो!॥ १४३ ॥ कृतार्थस्त्वं स्वयं नाथ !, कृते लोकस्य केवलम् । एवं विहरसे स्वार्थायोद्याति किमहस्करः? ॥१४४॥ मध्यन्दिनादित्य इव, त्वयि प्रतपति प्रभो! । सङ्घचत्यभितः कर्म, देहच्छायेव देहिनाम् ॥१४५॥ तिर्यञ्चोऽपि हि धन्यास्ते, ये त्वां पश्यन्ति सर्वदा । भवद्दर्शनवन्ध्यास्तु, त्रिविष्टपसदोऽपि न ॥ १४६॥ प्रकृष्टेभ्यः प्रकृष्टास्ते, भविकास्त्रिजगत्पते ! । एको हृदयचैत्येषु, येषां त्वमधिदेवता ॥ १४७ ॥ एकं याचे भवत्पादान् , ग्रामाद् ग्रामं पुरात् पुरम् । विहरन्नपि मा जातु, विहासीहृदयं मम ॥ १४८॥ प्रभुं स्तुत्वेति पञ्चाङ्गस्पृष्टभूमिः प्रणम्य च । पूर्वोत्तरस्यां दिश्यासाश्चक्रे दिविषदां पतिः॥१४९ ॥ तथा च समवसृतं, स्वामिनं शैलपालकाः । शशंसुश्चक्रिणे तत्र, तदर्थ स्थापिता हि ते ॥ १५० ॥ स वान्यो ददौ स्वर्णकोटीादश सार्द्धिकाः । तेभ्यो जिनं ज्ञपययः, सर्व स्तोकं हि तादृशाम् ॥१५१॥ सिंहासनादथोत्थायाऽभिमुखं भगवदिशः । गत्वा पदानि सप्ताऽष्टान्यनमद् विनयात् प्रभुम् ॥ १५२॥ स्थित्वा सिंहासने भूयो, भृय आजूहवन्नृपान् । स्वामिपादान्तयानाय, पुरन्दर इवाऽमरान् ॥ १५३॥ आययुः सर्वतो भूपाः, क्षणेन भरताज्ञया । वेलयेव पयोराशेरुच्चैर्वीचिपरम्पराः ॥ १५४ ॥ १ पादविकलः । २ सूर्यः । ३ देवाः। ४ श्रेष्ठः । * सप्ताऽष्टी, ननामाऽन्वक्षवत् प्रभुम् खंता ॥ भूयः सैन्यानाजूहवत् सं २, खंता, आ॥ सेनाः खंता ॥ ऋषभस्तुतिः। ॥१५४॥ Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy