Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
Jain Education International
अधोवहद्वारिभवैः, शैवलैश्वरणद्वयम् । तस्योद्वंसग्रामवापीसोपानवदलिप्यत ॥ ७६४ ॥ हिमत्तौं हिमसाद्भूतद्विपदघ्नसरित्यपि । सोऽस्थात् कर्मेन्धनप्लोषोद्युक्तध्यानाग्निना सुखम् ॥ ७६५ ॥ मिष्टषु त्रिषु कुन्दैवत् । धर्म्यं ध्यानं बाहुबलेरुजजृम्भे विशेषतः ॥ ७६६ ।। तस्मिन्नरण्यमहिषा, विषाणाच्छोटपूर्वकम् । महातरुस्कन्ध इव, स्कन्धकण्डूयनं व्यधुः ॥ ७६७ ॥ वपुषा तद्वपुरवष्टभ्य शैलतटीमिव । वार्षीणसकुलान्यन्वभूवन्निद्रासुखं निशि ॥ ७६८ ॥ सल्लकीपल्लवभ्रान्त्या, तत्पाणिचरणं मुहुः । कर्षन्तः कटुमसहा, वैलक्ष्यं करिणो ययुः ॥ ७६९ ॥ उत्कण्टककरालाभिर्जिह्वाभिः करपत्रवत् । विश्वस्तास्तं लिहन्ति मोदाननाश्वमरीगणाः ॥ ७७० ॥ लताभिः शतशाखाभिः, प्रसरन्तीभिरुच्चकैः । सुरजेश्वर्मवधीभिरिव सोऽवेश्यताऽभितः ॥ ७७१ ॥ परितस्तं शरस्तम्बाः, प्ररोहन्ति स्म सन्तताः । पूर्वस्नेहवशायातशराढ्यशरधिश्रियः ॥ ७७२ ॥ उद्ययुः पादयोस्तस्य, प्रावृदपङ्कनिमग्नयोः । चलच्छंतपदीगर्भा, अदभ्रा दर्भसूचयः ॥ ७७३ ॥ प्रचक्रिरे कुलीयांच, तद्देहे वल्लिसङ्कुले । परस्पराविरोधेन, ते श्येनचटकादयः ॥ ७७४ ॥ अरण्यकेकिकेकातस्त्रस्तास्तत्र महोरगाः । वल्लीवितानगहने, समारोहन् सहस्रशः ॥ ७७५ ॥ शरीरमधिरूढैस्तैर्लम्बमानैर्भुजङ्गमैः । बभौ बाहुबलिर्बाहुसहस्रमिव धारयन् ।। ७७६ ॥
१ निर्जनग्रामवापीसोपानवत् । २ हिमसाद्भूतगजप्रमाणसरिति । ७ गण्डकाख्यः पशुविशेषः ।
५ माध्यकुसुमवत् । ६] शृङ्गाच्छोटनपूर्वकं । ११ नीडानि । १२ अटवीमयूरवाणीतः ।
हेमन्तर्त्तसम्बन्धिनीषु । ८ ऊर्ध्वमुखाः । ९ मृदङ्गः ।
For Private & Personal Use Only
४ हिमदग्धवृक्षासु । १० कीटविशेषः ।
www.jainelibrary.org.
Loading... Page Navigation 1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410