SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ Jain Education International अधोवहद्वारिभवैः, शैवलैश्वरणद्वयम् । तस्योद्वंसग्रामवापीसोपानवदलिप्यत ॥ ७६४ ॥ हिमत्तौं हिमसाद्भूतद्विपदघ्नसरित्यपि । सोऽस्थात् कर्मेन्धनप्लोषोद्युक्तध्यानाग्निना सुखम् ॥ ७६५ ॥ मिष्टषु त्रिषु कुन्दैवत् । धर्म्यं ध्यानं बाहुबलेरुजजृम्भे विशेषतः ॥ ७६६ ।। तस्मिन्नरण्यमहिषा, विषाणाच्छोटपूर्वकम् । महातरुस्कन्ध इव, स्कन्धकण्डूयनं व्यधुः ॥ ७६७ ॥ वपुषा तद्वपुरवष्टभ्य शैलतटीमिव । वार्षीणसकुलान्यन्वभूवन्निद्रासुखं निशि ॥ ७६८ ॥ सल्लकीपल्लवभ्रान्त्या, तत्पाणिचरणं मुहुः । कर्षन्तः कटुमसहा, वैलक्ष्यं करिणो ययुः ॥ ७६९ ॥ उत्कण्टककरालाभिर्जिह्वाभिः करपत्रवत् । विश्वस्तास्तं लिहन्ति मोदाननाश्वमरीगणाः ॥ ७७० ॥ लताभिः शतशाखाभिः, प्रसरन्तीभिरुच्चकैः । सुरजेश्वर्मवधीभिरिव सोऽवेश्यताऽभितः ॥ ७७१ ॥ परितस्तं शरस्तम्बाः, प्ररोहन्ति स्म सन्तताः । पूर्वस्नेहवशायातशराढ्यशरधिश्रियः ॥ ७७२ ॥ उद्ययुः पादयोस्तस्य, प्रावृदपङ्कनिमग्नयोः । चलच्छंतपदीगर्भा, अदभ्रा दर्भसूचयः ॥ ७७३ ॥ प्रचक्रिरे कुलीयांच, तद्देहे वल्लिसङ्कुले । परस्पराविरोधेन, ते श्येनचटकादयः ॥ ७७४ ॥ अरण्यकेकिकेकातस्त्रस्तास्तत्र महोरगाः । वल्लीवितानगहने, समारोहन् सहस्रशः ॥ ७७५ ॥ शरीरमधिरूढैस्तैर्लम्बमानैर्भुजङ्गमैः । बभौ बाहुबलिर्बाहुसहस्रमिव धारयन् ।। ७७६ ॥ १ निर्जनग्रामवापीसोपानवत् । २ हिमसाद्भूतगजप्रमाणसरिति । ७ गण्डकाख्यः पशुविशेषः । ५ माध्यकुसुमवत् । ६] शृङ्गाच्छोटनपूर्वकं । ११ नीडानि । १२ अटवीमयूरवाणीतः । हेमन्तर्त्तसम्बन्धिनीषु । ८ ऊर्ध्वमुखाः । ९ मृदङ्गः । For Private & Personal Use Only ४ हिमदग्धवृक्षासु । १० कीटविशेषः । www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy