SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ U त्रिषष्टिशलाकापुरुषचरिते ॥१४८॥ SACROREGAONLCASSES पादपर्यन्तवल्मीकविनिर्यातैर्महोरगैः । पादयोर्वेष्टयाञ्चक्रे, स पादकटकैरिव ॥ ७७७ ॥ प्रथमं पर्व इत्थं स्थितस्य ध्यानेन, तस्यैको वत्सरो ययौ । विनाऽऽहारं विहरतो, वृषभस्वामिनो यथा ॥ ७७८ ॥ पञ्चमः ___ पूर्णे तु वत्सरे विश्ववत्सलो वृषभध्वजः । आहूय भगवान् ब्राह्मीसुन्दर्यावेवमादिशत् ॥ ७७९॥3॥ सर्गः स इदानीं बाहुबलिः, क्षीणप्रचुरकर्मकः । शुक्लचतुर्दशीरात्रिरिव प्रायेण निस्तमाः ॥ ७८०॥ ऋषभजिनमानात् स मोहनीयांशाज्ज्ञानं नाऽऽमोति केवलम् । तिरोहितः काण्डपटेनाऽप्यर्थो न हि दृश्यते ॥७८१॥ | भरतचक्रियुवयोर्वचसा मानं, सद्यस्त्यक्ष्यति सोऽद्य तत् । यातं तस्योपदेशाय, समयः खलु वर्तते ॥ ७८२॥ । 1६चरितम् । तामाज्ञां शिरसाऽऽदाय, नत्वा च चरणौ प्रभोः। प्रति बाहुबलिं ब्राह्मीसुन्दयो चेलतुस्ततः ॥७८३॥ ज्ञात्वापि तन्मानमुपेक्षाश्चक्रे वत्सरं प्रभुः । अगूढलक्ष्या अर्हन्तः, समये ह्युपदेशकाः ॥ ७८४ ॥ ते आर्ये जग्मतुस्तत्र, देशे वल्लीतिरोहितम् । रत्नं रजभ्छन्नमिवाऽलक्षयेतां न तं मुनिम् ॥ ७८५ ॥ बलियुद्धम्। मुहुरन्वेषयन्तीभ्यां, ताभ्यामथ तथास्थितः । उपालक्षि कथश्चित् स, वृक्षेभ्यो ह्यविशेषभाक् ॥ ७८६ ॥ निपुणं लक्षयित्वा तं, कृत्वा त्रिश्च प्रदक्षिणाम् । महामुनि बाहुबलिं, ते वन्दित्वैवमूचतुः ॥ ७८७ ॥ | आज्ञापयति तातस्त्वां, ज्येष्ठार्य! भगवानिदम् । हस्तिस्कन्धाधिरूढानामुत्पद्यत न केवलम् ॥ ७८८ ॥ इत्युदित्वा भगवत्यौ, जग्मतुस्ते यथागतम् । सोऽपि विस्मयमानोऽन्तर्महात्मैवमचिन्तयत् ॥ ७८९ ॥ त्यक्तसावद्ययोगस्य, कायोत्सर्गजुषस्ततः । अस्मिंस्तरोरिखाऽरण्ये, ममेभारोहणं कुतः ॥ ७९०॥ ॥१४८॥ इमे भगवतः शिष्ये, भाषेते न मृषा क्वचित् । तत् किमेतदहो! यद्वा, हुं ज्ञातं हि चिरान्मया ॥७९१॥ १ पटखण्डेन । २ गच्छतम् । ३ हस्त्यारोहणम् । www.jainelibrary.org For Private & Personal use only Jain Education Inter
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy