Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 344
________________ त्रिषष्टिशलाकापुरुषचरिते ॥१४३॥ चरितम्। पादाग्रप्राणतस्तिष्ठन्नुत्पित्सुरिव स क्षणात् । निपतन्तं प्रतीयेषाऽग्रजं गेन्दुकलीलया ॥ ६३६ ॥ 13 प्रथमं पर्व भरतोत्क्षेपणोद्भूतं, विषादं द्रागबाधत । चम्बोस्तद्रक्षणाद्धर्ष, उत्सर्गमपवादवत् ॥ ६३७ ॥ पश्चमः लवर्षभेर्विवेकेन, भ्रातरक्षणजन्मना । विद्या शीलगुणेनेव, पौरुषं तुष्टुवे जनैः ॥ ६३८॥ सर्गः उपरिष्टाद् बाहुबले, पुष्पवृष्टिं व्यधुः सुराः । तादृग्वीरव्रतजुषस्तस्येदमथवा कियत् ॥ ६३९ ।। ऋषभजिनतदा वैलक्ष्यकोपाभ्यां, युगपद् भरतेश्वरः। धूमध्वज इव धूमज्वालाभ्यां समयुज्यत ॥ ६४०॥ भरतचक्रि___ अथ बाहुबलिलजानमद्वदनपङ्कजः । वैलक्ष्यं ज्यायसो हर्तुमित्युवाच सगद्गदम् ॥ ६४१॥ मा विषीद जगन्नाथ :, महावीर्य! महाभुज । दैवात् कदाचित् केनापि, विजय्यपि विजीयते ॥६४२॥ एतावता नाऽसि जितो, विजयी चाऽस्मि नेयता । घुणाक्षरन्यायभवं, मन्येऽद्याप्यात्मनो जयम् ॥६४३॥ इयत्यपि त्वमेवैको, वीरोऽसि भुवनेश्वर! । अमरैर्मथितोऽप्यब्धिरब्धिरेव न दीपिका ॥ ६४४ ॥ | बलियुद्धम् । फालच्युत इव द्वीपी, पखण्डभरतेश्वर !। किं तिष्ठसि ? समुत्तिष्ठोत्तिष्ठस्व रणकर्मणे ॥ ६४५॥ बभाषे भरतोऽप्येवं, निजदोषस्य मार्जनम् । करिष्यत्येव दोर्दण्डो, मुष्टिं प्रगुणयन्नयम् ॥ ६४६ ॥ ततो मुष्टिं समुद्यम्य, फणामिव फणीश्वरः । प्रकोपताम्रनयनोऽपेत्याऽधावत चक्रभृत् ॥ ६४७॥ भरतो मुष्टिना तेनाऽऽजघान नृपतेरुरः । कपाटं गोपुरस्येव, दशनेन मतङ्गजः ॥६४८॥ प्रदानवदसत्पात्रे, बधिरे कर्णजापवत् । सत्कारवच्च पिशुने, जलवृष्टिवषरे ॥ ६४९॥ ॥१४३॥ उत्पतितुमिच्छुः । २ जग्राह । ३ कन्दुकलीलया। ४ बाहुबलिनः । ५ अग्निः । ६ ज्येष्ठस्य । ७ वापिका । ८ अपमृत्य । ९ मूर्ख। १० क्षारभूमौ । भरत-बाहु Jan Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410