________________
त्रिषष्टिशलाकापुरुषचरिते ॥१४३॥
चरितम्।
पादाग्रप्राणतस्तिष्ठन्नुत्पित्सुरिव स क्षणात् । निपतन्तं प्रतीयेषाऽग्रजं गेन्दुकलीलया ॥ ६३६ ॥
13 प्रथमं पर्व भरतोत्क्षेपणोद्भूतं, विषादं द्रागबाधत । चम्बोस्तद्रक्षणाद्धर्ष, उत्सर्गमपवादवत् ॥ ६३७ ॥
पश्चमः लवर्षभेर्विवेकेन, भ्रातरक्षणजन्मना । विद्या शीलगुणेनेव, पौरुषं तुष्टुवे जनैः ॥ ६३८॥
सर्गः उपरिष्टाद् बाहुबले, पुष्पवृष्टिं व्यधुः सुराः । तादृग्वीरव्रतजुषस्तस्येदमथवा कियत् ॥ ६३९ ।। ऋषभजिनतदा वैलक्ष्यकोपाभ्यां, युगपद् भरतेश्वरः। धूमध्वज इव धूमज्वालाभ्यां समयुज्यत ॥ ६४०॥ भरतचक्रि___ अथ बाहुबलिलजानमद्वदनपङ्कजः । वैलक्ष्यं ज्यायसो हर्तुमित्युवाच सगद्गदम् ॥ ६४१॥ मा विषीद जगन्नाथ :, महावीर्य! महाभुज । दैवात् कदाचित् केनापि, विजय्यपि विजीयते ॥६४२॥ एतावता नाऽसि जितो, विजयी चाऽस्मि नेयता । घुणाक्षरन्यायभवं, मन्येऽद्याप्यात्मनो जयम् ॥६४३॥ इयत्यपि त्वमेवैको, वीरोऽसि भुवनेश्वर! । अमरैर्मथितोऽप्यब्धिरब्धिरेव न दीपिका ॥ ६४४ ॥
| बलियुद्धम् । फालच्युत इव द्वीपी, पखण्डभरतेश्वर !। किं तिष्ठसि ? समुत्तिष्ठोत्तिष्ठस्व रणकर्मणे ॥ ६४५॥
बभाषे भरतोऽप्येवं, निजदोषस्य मार्जनम् । करिष्यत्येव दोर्दण्डो, मुष्टिं प्रगुणयन्नयम् ॥ ६४६ ॥ ततो मुष्टिं समुद्यम्य, फणामिव फणीश्वरः । प्रकोपताम्रनयनोऽपेत्याऽधावत चक्रभृत् ॥ ६४७॥
भरतो मुष्टिना तेनाऽऽजघान नृपतेरुरः । कपाटं गोपुरस्येव, दशनेन मतङ्गजः ॥६४८॥ प्रदानवदसत्पात्रे, बधिरे कर्णजापवत् । सत्कारवच्च पिशुने, जलवृष्टिवषरे ॥ ६४९॥
॥१४३॥ उत्पतितुमिच्छुः । २ जग्राह । ३ कन्दुकलीलया। ४ बाहुबलिनः । ५ अग्निः । ६ ज्येष्ठस्य । ७ वापिका । ८ अपमृत्य । ९ मूर्ख। १० क्षारभूमौ ।
भरत-बाहु
Jan Education International
For Private & Personal use only
www.jainelibrary.org