SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ क्षणादधः क्षणादूर्ध्व, कदाचित् कश्चिदप्यभूत् । नियुद्धविज्ञानवशात् , प्राणी कर्मवशादिव ॥ ६२२ ॥ उपर्यसावधोऽसावित्यज्ञायेतां जनैन तौ । जलान्तर्मत्स्यवद् वेगान्मुहुर्विपरिवर्तिनौ ॥ ६२३ ॥ चक्रतुर्बन्धविज्ञानं, महाही इव तौ मिथः । निरासतुश्च सद्योऽपि, चपलौ प्लवंगाविव ॥ ६२४॥ मुहुर्महीलुठनतस्तावुभौ धूलिधूसरौ । बभासाते प्राप्तधूलीमदौ मदकलाविव ॥ ६२५ ॥ असहिष्णुस्तयोर्भार, शैलयोरिव सर्पतोः । पादनिर्यातनिर्घोषादारैराटेव मेदिनी ॥ ६२६ ॥ अथ बाहुबलिः क्रुद्धः, करेणैकेन चक्रिणम् । शर्रभः कुञ्जरमिवोदग्रहीदुग्रविक्रमः ॥ ६२७ ॥ व्योमन्युल्लालयामास, स तं रूपंमिव द्विपः । अहो ! निरवधिः सर्गो, बलिनो बलिनामपि ॥ ६२८॥ चापादिपुरिवोन्मुक्तः, पाषाण इव यत्रतः । तारापथपथे दूरं, जगाम भरतेश्वरः ॥ ६२९ ॥ भरतेशादापततः, शक्रमुक्तात् पैवेरिख । पलायाञ्चक्रिरे सर्वे, खेचराः समरेक्षिणः॥ ६३० ॥ हाहारवो महान् जजे, सेनयोरुभयोरपि । कस दुःखाकरो न स्यान्महतां ह्यापदागमः ॥ ६३१॥ धिग मे बलमिदं बाह्वोर्धिग् धिग् रामसिकं च माम् । एतत् कर्मोपेक्षकांच, धिग् राज्यद्वयमत्रिणः॥६३२॥ किंवा विगहितैरेभिर्यावदद्यापि मेग्रजः । पतित्वा मेदिनीपृष्ठे, कणशो न विशीर्यते ॥ ६३३॥ तावत् पतन्तं गगनात् , प्रतीच्छामीति चिन्तयन् । तल्पकल्पौ भुजौ तस्याऽधो दधौ बाहुबल्यपि ॥६३४॥ [त्रिभिर्विशेषकम् ]] ऊर्ध्वबाहुबतीवो वाहुर्बाहुबलिः क्षणम् । तस्थौ दिनकरालोकव्रतीव च तदोन्मुखः ॥ ६३५ ॥ १ वानरौ । २ हस्तिनौ । ३ आचुकोश । ४ अष्टापदः । ५ पशुम् । ६ गगनमागें । ७ बज्रात्। ८ साहसिकम् । ९ शय्यातुल्यौ । Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy