________________
त्रिषष्टिशलाका
प्रथमं पर्व पञ्चमः सर्गः
पुरुषचरिते
॥१४२॥
ऋषभजिनभरतचक्रिचरितम् ।
शास्त्रीयवाग्युद्धेऽप्येवं, वादिना प्रतिवाद्यसौ । वीरेण बाहुबलिना, विजिग्ये भरतेश्वरः॥ ६०७ ॥
अथ तो बाहुयुद्धार्थमुभावपि हि बान्धवौ । बवन्धतुः परिकरं, बद्धकक्षद्विपोपमौ ॥ ६०८॥ अथ बाहुबलेगर्जनुढेल इव वारिधिः । स्वर्णदण्डधरः साऽऽह, प्रतीहाराग्रणीरिति ॥ ६०९॥ वज्रकीलानिव शैलानवष्टभ्य विशेषतः । आस्थाय थाम चाऽशेषमपि पृथ्वि! स्थिरीभव ॥ ६१० ॥ परितः पूरयित्वा च, कुम्भयित्वा च मारुतम् । हे नागराज! नगवद् , दृढीभूय धरां धर ॥ ६११ ॥ लुठित्वा वारिधेः पङ्के, विहायाऽग्रेतनं श्रमम् । पुनर्नवीभूय महाक्रोड ! क्रोडीकुरु क्षितिम् ॥ ६१२॥ वज्रमानिन् ! निजाङ्गानि, सङ्कोच्य परितोऽपि हि । स्वपृष्ठं कर्मठप्रष्ठ!, द्रढयित्वा महीं वह ॥ ६१३ ॥ प्रमादतो मदतो वा, निद्रां मा धत्त पूर्ववत् । सर्वात्मना सावधाना, वसुधां धत्त दिग्गजाः!॥ ६१४ ॥ वज्रसारो बाहुबलिर्वज्रसारेण चक्रिणा । यदसौ मल्लयुद्धेन, योद्धमुत्तिष्ठतेऽधुना ।। ६१५॥ __ महामल्लौ तडिद्दण्डताडिताद्रिरवोपमम् । विदधानौ करास्फोटमाह्वासातां मिथोऽथ तौ ॥ ६१६॥ तौ सलीलपदन्यासं, चेलतुश्चलकुण्डलौ । सार्केन्दू धातकीखण्डात्, क्षुद्रमेरू इवाऽऽगतौ ॥ ६१७ ॥ तावन्योऽन्यं कराभ्यां चाऽऽस्फालयामासतुः करौ। नदन्तौ बलवद्दन्तौ, दन्ताभ्यां दन्तिनाविव ।। ६१८॥ अयुज्येतां क्षणेनापि, व्ययुज्येतां क्षणेन च । तावासन्नमहावृक्षाविवोद्दण्डानिलेरितौ ॥ ६१९ ॥ उत्पेततः क्षणेनापि, क्षणेनापि निपेततुः । वीरौ तौ दुर्दिनोन्मत्तमहाम्भोधितरङ्गवत् ॥ ६२०॥ अथ स्नेहादिवाऽमर्षाद् , धावित्वा तावुभावपि । अङ्गेनाऽङ्गं पीडयन्ती, सखजाते महाभुजौ ॥ ६२१ ॥ १ बलम् । २ स्तम्भयित्वा । ३ हे महावराह । ४ मध्येकुरु। ५ हे कूर्मश्रेष्ठ!। ६ आलिङ्गितवन्तौ ।
भरत-बाहुबलियुद्धम।
|॥१४२॥
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org