________________
रश्मि नाजीगणन् रेथ्या, गुर्वाज्ञामिव दुर्धियः। सुणीन् नाऽमानयन् नागाः, पिशुना इव सद्विरम् ॥५९४॥ अश्वा नाऽज्ञासिपुर्वल्गां, कटुत्वं श्लेष्मला इव । मैया नाऽगणयन् नासारखं लजां विटी इव ॥ ५९५ ॥ न वेसराः कशाघातं, भृताविष्टा इवाऽविदन् । त्रस्यन्तस्तेन नादेन, न केपि स्थैर्यमादधुः॥ ५९६ ॥ ___ अथाऽऽपतत्पक्षिराजपक्षनिर्घोषबुद्धितः । पातालतोऽपि पातालं, विविक्षुभिरिवोरगैः ॥ ५९७ ॥ अन्तःप्रविष्टमन्थाद्रिमन्थनध्वानशङ्कया । मध्येजलधि यादोभित्रस्यद्भिः सर्वतोऽपि च ॥ ५९८॥ | भूयो जम्भारिनिर्मुक्तदम्भोलिध्वनितभ्रमात् । क्षयं स्वस्याऽऽशङ्कमानैः, कम्पमानैः कुलाचलैः ॥ ५९९।। कल्पान्तपुष्करावर्तमुक्तविद्युद्धनिभ्रमात् । लुठद्भिरवनीपीठे, मध्यलोकनिवासिभिः ॥६००॥ अकाण्डागतदैत्यावस्कन्दकोलाहलभ्रमात् । आकुलैश्वाऽमरकुलैः, श्रूयमाणोऽतिदुःश्रवः ॥६०१॥ लोकनालिस्पर्द्धयेव, वर्धमानोऽधरोत्तरम् । विदधे बाहुबलिना, सिंहनादोऽतिभैरवः॥ ६०२॥
[षडिः कुलकम् ] भूयो व्यधत्त भरतः, सिंहनादं महाबलः । वैमानिकानां वनितास्त्रासयन्तं मृगीरिव ॥ ६०३ ॥ एवं क्रमेण चक्राते, चक्रिभृपौ महाध्वनिम् । जगतो मध्यमस्याऽस्य, क्रीडया भीषकाविव ॥६०४॥ हस्तो मतङ्गजस्येव, शरीरं दृक्श्रुतेरिव । अहीयततमां शब्दः, क्रमेण भरतेशितुः ॥ ६०५॥ सिंहनादो बाहुबलेर्ववृधे त्वधिकाधिकम् । प्रवाहः सरित इव, सज्जनस्येव सौहृदम् ॥ ६०६ ॥
१ प्रग्रहान् । २ रथयोजिताश्वाः । ३ अङ्कुशान् । ४ श्लेष्मरोगिणः । ५ उष्ट्राः। ६ जाराः। ७ गरुडः। ८ इन्द्रः। ९ सर्पस्य । १० अतिशयेन हीनोऽभवत् ।
Jain Education Internet
For Private & Personal use only
www.jainelibrary.org