________________
सङ्गीतवदरण्यान्यां, हिमान्यां वह्निपातवत् । मुधाऽभूच्चक्रिणो मुष्टिप्रहारः पार्थिवोरसि ॥६५०॥ [युग्मम् ]] ___ असभ्यमपि किं क्रुद्ध, इत्याशङ्येक्षितोऽमरैः । उचिक्षेपोच्चकैमुष्टिं, सुनन्दानन्दनोऽप्यथ ॥६५१॥ मुष्टिनाऽताडयत् तेन, स चक्रिणमुरःस्थले । कुम्भस्थले महामात्रोऽयोगोलेनेव कुम्भिनम् ॥ ६५२ ॥ घातेन तेन दम्भोलिनिपातेनेव पर्वतः । पपात मू विधुरो, भूतले भरतेश्वरः ॥ ६५३॥ चकम्पे पतता तेन, भूः पत्येव कुलाङ्गना । पर्वता अप्यवेपन्त, बान्धवेनेव बान्धवाः ॥ ६५४ ॥ क्षत्रियाणां कुहेवाकः, कोऽयं वीरव्रताग्रहे ? । विग्रहो निग्रहान्तोऽयं, यत्र भ्रातर्यपीदृशः ॥ ६५५ ॥ न जीवेदग्रजश्चेत् तज्जीवितेन ममाऽप्यलम् । एवं मनसि कुर्वाणः, सिञ्चन् नयनवारिभिः॥६५६॥ स्वमुत्तरीयं व्यजनीकृत्य बाहुबलिस्ततः । भरतं वीजयामास, यो बन्धुर्बन्धुरेव सः॥ ६५७ ॥
[विभिर्विशेषकम् ] चक्री सुप्त इवोत्तस्थौ, लब्धसंज्ञः क्षणादथ । ददर्श च पुरो भृत्यमिव बाहुबलिं स्थितम् ॥ ६५८ ॥ अधोमुखौ वितस्थाते, बान्धवौ तावुभावपि । पराजयो जयश्चाऽपि, लज्जायै महतामहो! ॥६५९ ॥ किश्चित् पश्चात्पदन्यासमपचक्राम चक्रभृत् । पुंसामोजायमानानां, युयुत्सालक्षणं ह्यदः॥६६॥ युयुत्सुः पुनरप्यायः, शङ्के युद्धेन केनचित् । नोज्झन्ति मानिनो मानं, यावजीवं मनागपि ॥ ६६१॥ अवर्णवादो बलवान् , भावी बाहुबलेः खलु । भ्रातृहत्याभवो मन्ये, नैवाऽन्तेऽपि विरस्वति ॥ ६६२॥ इति सञ्चिन्तयामास, यावद् बाहुबलिः क्षणम् । तावच्चक्रधरो दण्डं, दण्डपाणिरिवाऽऽददे ॥ ६६३ ॥ १ महति अरण्ये। २ महति हिमे। ३ अङ्कुशेन । ४ कुस्वभावः। ५ तालवृन्तीकृत्य । ६ यमराजः ।
Jain Education Interne
For Private & Personal Use Only
www.jainelibrary.org