________________
त्रिषष्टि
शलाकापुरुषचरिते
प्रथमं पर्व पञ्चमः
सर्गः ऋषभजिनभरतचक्रिचरितम् ।
॥१४४॥
तेनोदस्तेन दण्डेन, चकासामास चक्रभृत् । चूलयेवाऽचलश्छायापथेनेव मरुत्पथः ॥ ६६४ ॥ अथ तं दण्डमुत्पातकेतुभ्रमविधायिनम् । नभसि भ्रमयामास, क्षणं भरतभूपतिः ॥ ६६५॥ पञ्चाननयुवा पुच्छदण्डेनेव महीतलम् । शिरस्यताडयच्चक्री, तेन दण्डेन भूपतिम् ॥ ६६६ ॥ समास्फलन्त्या सह्याद्री, वेलयेव महोदधेः । तन्मूर्ध्नि चक्रिणो दण्डघातेनाऽभून्महान् ध्वनिः ॥६६७ ॥ दण्डेनाऽचूर्णयचक्री, किरीटं मूर्ध्नि भूपतेः । अयोधनेनाध्य इवाधिकरण्यामवस्थितम् ॥ ६६८ ॥ किरीटरत्नखण्डानि, निपेतुर्नुपमूर्धतः । वातान्दोलितवृक्षाग्रादिव पुष्पाणि भूतले ॥ ६६९ ॥
भूपतिस्तेन घातेन, क्षणं मुकुलितेक्षणः । तन्निर्घोषेण घोरेण, लोकश्च समजायत ॥ ६७० ॥ उन्मील्य नयने हस्तेनाऽऽददे बाहुबल्यपि । उद्दण्डमायसं दण्डं, साङ्ग्रामिक इव द्विपः ॥ ६७१ ॥ पाटयिष्यत्यसौ किं मां ?, किं मामुत्पाटयिष्यति ? । इत्याशशङ्के स द्यावापृथिवीभ्यां यथाक्रमम् ॥६७२॥ रेजे बाहुबलेर्मुष्टौ, लोहदण्डः स आयतः । पर्वतस्याऽग्रभागस्थवामलूर इवोरगः ॥ ६७३ ॥ दूरतोऽप्यन्तकाह्वानसंज्ञावस्त्रमिवाऽथ तम् । भृशमुद्धमयामास, दण्डं तक्षशिलापतिः॥ ६७४ ॥ निर्दयं हृदये तेन, चक्रिणं बहलीपतिः । ताडयामास लकुंटेनेव बीजस्य मूटकम् ॥ ६७५ ॥ तेन घातेन घटवद्, द्रढीयानपि खण्डशः। विशीर्यते स्म सहसा, सन्नाहश्चक्रवर्तिनः ॥ ६७६ ॥ निरभ्र इव मार्तण्डो, निधूम इव पावकः । शीर्णवर्मा चक्रवर्ती, दिद्युतेऽमर्षतोऽधिकम् ॥ ६७७ ॥ क्षणार्धं विह्वलीभूतो, नाऽचेतयत किञ्चन । भरतः सप्तममदावस्थाप्राप्त इव द्विपः ॥ ६७८ ॥ १ सिंहयुवा। २ लोहशिलायाम् । ३ दण्डेन । * बीजान्नमूटकम् सं २, आ ॥ ४ निर्मेघः ।
भरत-बाहु| बलियुद्धम्।
॥१४४॥
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org