________________
प्रियमित्रमिवाऽऽलम्ब्याविलम्बाद् बाहुपौरुषम् । चक्रभृद् दण्डमुद्यम्य, भूयो राक्षेऽभ्यधावत ॥६७९॥ पीडयन्नधरं दन्तै कुटीभङ्गभीषणः । भरतोऽभ्रमयद् दण्डमौर्वावर्तविडम्बिनम् ॥ ६८० ॥ मूर्ध्नि बाहुबलिं तेन, चक्रपाणिरताडयत् । तडिद्दण्डेन कल्पान्तजीमूत इव पर्वतम् ॥ ६८१ ॥ ममजाऽऽजानु घातेन, तेन बाहुबलिर्भुवि । लोहाधिकरणीमध्ये, वज्रोपल इवाऽऽहतः ॥ ६८२॥ आस्फल्य बाहुबलिनि, वज्रसारे व्यशर्यत । खेन तेनाऽऽगसा भीत, इव दण्डः स भारतः ॥ ६८३ ॥ आजानु मनो मेदिन्यामवगाढ इवाऽचलः । निष्क्रान्तशेषः शेषाहिरिव बाहुबलिर्बभौ ॥ ६८४ ॥ अधूनयत् स मूर्धानं, घातवेदनया तया । अन्तश्चमत्कृत इव, ज्यायसो भ्रातुरोजसा ॥ ६८५ ॥ आत्माराम इव योगी, न किञ्चिदशृणोत् क्षणम् । तदा बाहुबलिस्तेन, घातेन प्राप्तवेदनः ॥ ६८६ ॥
निर्ययौ मेदिनीमध्यात्, सुनन्दानन्दनस्ततः । आश्यानकूलिनीकूलपङ्कमध्यादिव द्विपः ॥६८७॥ लाक्षारसारुणैदृष्टिपातैरातर्जयन्भिव । स्खौ दोर्दण्डौ च दण्डं चाऽपश्यत् सोऽमर्षणाग्रणीः ॥ ६८८॥ दुष्प्रेक्षं तक्षकमिवाऽभीक्ष्णं तक्षशिलापतिः। ततस्तं भ्रमयामास, दण्डमेकेन पाणिना ॥ ६८९ ॥ सुनन्दासूनुना दण्डो, भ्रम्यमाणोऽतिवेगतः । राधावेधपरिभ्राम्यच्चक्रलक्ष्मीमुवाह सः॥ ६९० ॥ कल्पान्तसागरावर्तगर्तभ्रान्तादिमत्स्यवत् । स भ्राम्यन् प्रेक्ष्यमाणोऽपि, भ्रमि व्यधित चक्षुषाम् ॥ ६९१॥ उत्पतंस्तपनं कांस्यपात्रवत् स्फोटयिष्यति । भारुण्डाण्डवक्षेशमण्डलं चूर्णयिष्यति ॥ ६९२ ॥
१ वडवानलः । २ कल्पान्तमेघः । ३ वज्रमणिः। ४ शेषनागः। ५ शुष्कनदीतटपङ्कमध्यात् । ६ नागविशेषम् । सूर्यम् । ८ भारण्डपक्षिणः अण्डवत् । ९ चन्द्रमण्डलम् ।
त्रिषष्टि. २५ Jain Education International
For Private & Personal use only
www.jainelibrary.org,