SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ प्रथमं पर्व पञ्चमः | सर्ग: ऋषभजिनभरतचक्रि| चरितम् । त्रिषष्टि- तारागणानामलकीफलवद् भ्रंशयिष्यति । वैमानिकविमानानि, नीडवत् पातयिष्यति ॥ ६९३ ॥ शलाका- पैतन् पर्वतशृङ्गाणि, नाकुवद् दलयिष्यति । महातरुनिकुञानि, निष्पेक्ष्यति तृणाघवत ॥ ६९४ ॥ पुरुषचरिते अपक्कमृत्तिकागोलवच्च भेत्स्यति मेदिनीम् । हस्तादमुष्य दैवाच्चेद् , दण्ड एष पतिष्यति ॥ ६९५॥ इत्याशङ्काकुलैः सैन्यैः, प्रेक्ष्यमाणोऽमरैरपि । भूपतिश्चक्रिणं तेन, दण्डेन शिरसि न्यहन् ॥ ६९६ ॥ ॥१४५॥ [पञ्चभिः कुलकम् ] तेन दण्डाभिघातेन, चक्रवर्ती महीयसा । आकण्ठं प्रविवेशोया, मुद्गराहतकीलवत् ॥ ६९७ ॥ यथाऽमत्स्वामिनो दत्तं, विवरं देहि नस्तथा । इतीव पेतुर्मेदिन्यां, विषण्णाश्चक्रिसेवकाः ॥ ६९८॥ राहुग्रस्त इवाऽऽदित्ये, भूमग्ने चक्रवर्तिनि । तुर्मुलोऽभूद् भुवि महान् , नृणां दिवि दिवौकसाम् ॥६९९॥ निमीलिताक्षः श्यामास्वः, षदखण्डभरतेश्वरः। लजयेव महीमध्ये, क्षणमेकमवास्थित ॥ ७००॥ अथैकस्य क्षणस्याऽन्ते, तेजसा सोऽतिभासुरः । निर्ययाववनीमध्यान्निशान्त इव भास्करः ॥७०१॥ - सोऽथैवं चिन्तयामास, युद्धेषु निखिलेष्वपि । जितोऽहममुना द्यूतेष्विवाऽन्धद्यूतकारकः॥७०२॥ किं स्यादस्योपयोगाय, साधितं भरतं मया ? | गोदोहकस्येव गवा, जग्धं दुर्वातणादिकम् ॥ ७०३ ॥ एकस्मिन् भरतक्षेत्रे, युगपच्चक्रवर्तिनौ । उभावसी कोश इव, न च दृष्टौ न वा श्रुतौ ॥ ७०४॥ इन्द्रो विजीयते देवैश्चक्रवर्ती च पार्थिवैः । अनाकर्णितपूर्व नश्चेदं खरविषाणवत् ॥ ७०५॥ एतदाख्यवृक्षफलवत् । २ पक्षिगृहवत्। * अयं श्लोकः खं पुस्तके पतितः। ३ वल्मीकवत् । ४ कोलाहलः । ४५ सत्र्यन्ते। ६ भुक्तम् । भरत-बाहुबलियुद्धम्। ॥१४५॥ Jain Education Internation For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy