________________
अमुना विजितश्चक्रवर्ती किं न भवाम्यहम् ? । मयाऽप्यविजितो विश्वाजय्यस्तच्चक्रवर्त्यसौ ? ॥७०६॥ एवं चिन्तयतस्तस्य, चिन्तामणिविडम्बकैः । यक्षराजैः समानीय, चक्रमारोपितं करे ॥ ७०७ ॥ तत्प्रत्ययाच्चक्रिमानी, चक्रं भ्रमयति स्म सः । वात्यावर्त इवाऽम्भोजरजोमण्डलमम्बरे ॥ ७०८॥ कालानल इवाऽकालेऽप्यौर्वानल इवाऽपरः । वज्रानल इवाऽकस्मादुल्कापुञ्ज इवोच्चकैः ॥ ७०९ ॥ रविविम्बमिव भ्रस्यद् , विद्युद्गोल इव भ्रमन् । ज्वालाजालकरालं तच्चक्रं व्योमन्यलक्ष्यत ॥७१०॥[युग्मम्]
भ्रम्यमाणं प्रहाराय, तच्चक्रं चक्रवर्तिना । निध्याय दध्यौ मनसि, मनस्वी बहलीपतिः॥७११॥ धिक् तातपुत्रमानित्वमस्य क्षत्रव्रतं च धिक् । मयि दण्डायुधे चक्रादानं यद् भरतेशितुः॥ ७१२॥ समक्षं घुसदामस्योत्तमयुद्धप्रतिश्रवम् । धिगहो! बालकस्येव, संव्यानादानमीदृशम् ॥ ७१३ ॥ तेजोलेश्यां तपस्खीव, रुष्टश्चक्रं प्रदर्शयन् । यथेषोऽभापयद् विश्वं, मां विभाययिषुस्तथा ॥ ७१४॥ निजदोर्दण्डदण्डानां, सारं विज्ञातवान् यथा । असौ तथा रथाङ्गस्याऽप्यस्य जानातु विक्रमम् ॥७१५॥ एवं चिन्तयतो याहुबलेर्दोर्बलशालिनः । प्रेर्य सौंजसा चक्रं, मुमोच भरतेश्वरः ॥७१६॥
दण्डेन दलयाम्याशु, किमिदं जीर्णभाण्डवत । किंवा कन्दुकवत् पश्चात, क्षिपाम्याहत्य हेलया ७१७॥ शकुलावत् किमथवा, लीलयोल्लालयामि खे१। यदि वा मेदिनीमध्ये, न्यस्यामि शिशुनालवत् ॥७१८॥ गृह्णामि पाणिना किं वोल्ललच्चटकपोतवत् । । अथाऽपहस्तयाम्याराद्, वधानर्हापराधिवत् ? ।। ७१९ ॥ अथाऽधिष्ठायकानस्य, सहस्रं यक्षकानमृन् । दलयाम्याशु दण्डेन, घरदेन कणानिव ? ॥ ७२०॥ १ वडवाग्निः। २ दृष्ट्वा । ३ चक्रस्य । ४ उत्पलपत्रिकावत् ।
Jain Education Internal
For Private & Personal use only
www.jainelibrary.org