Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
प्रथमं पर्व
पञ्चमः | सर्ग: ऋषभजिनभरतचक्रि| चरितम् ।
त्रिषष्टि- तारागणानामलकीफलवद् भ्रंशयिष्यति । वैमानिकविमानानि, नीडवत् पातयिष्यति ॥ ६९३ ॥ शलाका- पैतन् पर्वतशृङ्गाणि, नाकुवद् दलयिष्यति । महातरुनिकुञानि, निष्पेक्ष्यति तृणाघवत ॥ ६९४ ॥ पुरुषचरिते अपक्कमृत्तिकागोलवच्च भेत्स्यति मेदिनीम् । हस्तादमुष्य दैवाच्चेद् , दण्ड एष पतिष्यति ॥ ६९५॥
इत्याशङ्काकुलैः सैन्यैः, प्रेक्ष्यमाणोऽमरैरपि । भूपतिश्चक्रिणं तेन, दण्डेन शिरसि न्यहन् ॥ ६९६ ॥ ॥१४५॥
[पञ्चभिः कुलकम् ] तेन दण्डाभिघातेन, चक्रवर्ती महीयसा । आकण्ठं प्रविवेशोया, मुद्गराहतकीलवत् ॥ ६९७ ॥ यथाऽमत्स्वामिनो दत्तं, विवरं देहि नस्तथा । इतीव पेतुर्मेदिन्यां, विषण्णाश्चक्रिसेवकाः ॥ ६९८॥ राहुग्रस्त इवाऽऽदित्ये, भूमग्ने चक्रवर्तिनि । तुर्मुलोऽभूद् भुवि महान् , नृणां दिवि दिवौकसाम् ॥६९९॥ निमीलिताक्षः श्यामास्वः, षदखण्डभरतेश्वरः। लजयेव महीमध्ये, क्षणमेकमवास्थित ॥ ७००॥ अथैकस्य क्षणस्याऽन्ते, तेजसा सोऽतिभासुरः । निर्ययाववनीमध्यान्निशान्त इव भास्करः ॥७०१॥ - सोऽथैवं चिन्तयामास, युद्धेषु निखिलेष्वपि । जितोऽहममुना द्यूतेष्विवाऽन्धद्यूतकारकः॥७०२॥ किं स्यादस्योपयोगाय, साधितं भरतं मया ? | गोदोहकस्येव गवा, जग्धं दुर्वातणादिकम् ॥ ७०३ ॥ एकस्मिन् भरतक्षेत्रे, युगपच्चक्रवर्तिनौ । उभावसी कोश इव, न च दृष्टौ न वा श्रुतौ ॥ ७०४॥ इन्द्रो विजीयते देवैश्चक्रवर्ती च पार्थिवैः । अनाकर्णितपूर्व नश्चेदं खरविषाणवत् ॥ ७०५॥
एतदाख्यवृक्षफलवत् । २ पक्षिगृहवत्। * अयं श्लोकः खं पुस्तके पतितः। ३ वल्मीकवत् । ४ कोलाहलः । ४५ सत्र्यन्ते। ६ भुक्तम् ।
भरत-बाहुबलियुद्धम्।
॥१४५॥
Jain Education Internation
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410