Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
रश्मि नाजीगणन् रेथ्या, गुर्वाज्ञामिव दुर्धियः। सुणीन् नाऽमानयन् नागाः, पिशुना इव सद्विरम् ॥५९४॥ अश्वा नाऽज्ञासिपुर्वल्गां, कटुत्वं श्लेष्मला इव । मैया नाऽगणयन् नासारखं लजां विटी इव ॥ ५९५ ॥ न वेसराः कशाघातं, भृताविष्टा इवाऽविदन् । त्रस्यन्तस्तेन नादेन, न केपि स्थैर्यमादधुः॥ ५९६ ॥ ___ अथाऽऽपतत्पक्षिराजपक्षनिर्घोषबुद्धितः । पातालतोऽपि पातालं, विविक्षुभिरिवोरगैः ॥ ५९७ ॥ अन्तःप्रविष्टमन्थाद्रिमन्थनध्वानशङ्कया । मध्येजलधि यादोभित्रस्यद्भिः सर्वतोऽपि च ॥ ५९८॥ | भूयो जम्भारिनिर्मुक्तदम्भोलिध्वनितभ्रमात् । क्षयं स्वस्याऽऽशङ्कमानैः, कम्पमानैः कुलाचलैः ॥ ५९९।। कल्पान्तपुष्करावर्तमुक्तविद्युद्धनिभ्रमात् । लुठद्भिरवनीपीठे, मध्यलोकनिवासिभिः ॥६००॥ अकाण्डागतदैत्यावस्कन्दकोलाहलभ्रमात् । आकुलैश्वाऽमरकुलैः, श्रूयमाणोऽतिदुःश्रवः ॥६०१॥ लोकनालिस्पर्द्धयेव, वर्धमानोऽधरोत्तरम् । विदधे बाहुबलिना, सिंहनादोऽतिभैरवः॥ ६०२॥
[षडिः कुलकम् ] भूयो व्यधत्त भरतः, सिंहनादं महाबलः । वैमानिकानां वनितास्त्रासयन्तं मृगीरिव ॥ ६०३ ॥ एवं क्रमेण चक्राते, चक्रिभृपौ महाध्वनिम् । जगतो मध्यमस्याऽस्य, क्रीडया भीषकाविव ॥६०४॥ हस्तो मतङ्गजस्येव, शरीरं दृक्श्रुतेरिव । अहीयततमां शब्दः, क्रमेण भरतेशितुः ॥ ६०५॥ सिंहनादो बाहुबलेर्ववृधे त्वधिकाधिकम् । प्रवाहः सरित इव, सज्जनस्येव सौहृदम् ॥ ६०६ ॥
१ प्रग्रहान् । २ रथयोजिताश्वाः । ३ अङ्कुशान् । ४ श्लेष्मरोगिणः । ५ उष्ट्राः। ६ जाराः। ७ गरुडः। ८ इन्द्रः। ९ सर्पस्य । १० अतिशयेन हीनोऽभवत् ।
Jain Education Internet
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410