________________
त्रिपष्टिशलाका
पुरुषचरिते
॥११४॥
Jain Education Interhol
T
देभ्यो हर्दिनीभ्यश्च, इदिनीनाथतोऽपि च । तीर्थेभ्यश्चाऽऽहरनीरमौषधीर्मृत्तिकाश्च ते ।। ६७२ ॥ गत्वा पौषधशालायां, राजाऽष्टमतपोऽग्रहीत् । राज्यं तपसाऽऽप्तमपि तपसैव हि नन्दति ।। ६७३ | राजाऽष्टमे परिणमत्यन्तःपुरवृतो ययौ । वारणेन परीवारयुतस्तं दिव्यमण्डपम् ।। ६७४ ॥ अन्तःपुरेण सह तैर्नाटकैश्च सहस्रशः । भरतः प्रविवेशाऽभिषेकमण्डपमुन्नतम् ॥ ६७५ ।। स मृगेन्द्रासनं तत्र स्नानपीठं मणीमयम् । चक्री प्रदक्षिणीच, मेरुशैलमिवाऽर्यमा ॥ ६७६ ॥ पूर्व सोपान पद्धत्या, स्नानपीठं तदुच्चकैः । आरुरोह महीनाथः, शैलप्रस्थमिव द्विपः ॥ ६७७ ॥ प्राचीपतेरिव प्रीत्या प्राग्दिशोऽभिमुखस्ततः । रत्नसिंहासने तत्रोपाविशद् भरतेश्वरः ।। ६७८ ॥ ति द्वात्रिंशत्सहस्राणि, भूपाः कतिपया इव । सुखमारुरुहुः पीठमुदक्सोपानवर्त्मना ।। ६७९ ॥ चक्रिणो नातिदूरोर्व्या, तस्थुर्भद्रासनेषु ते । बद्धाञ्जलिपुटा देवमिव वेन्दारवो नृपाः ।। ६८० ॥ सेनापतिर्गृहपतिर्वर्द्धकिश्च पुरोहितः । श्रेष्ठयादयोऽप्यारुरुहुर्याम्यसोपानमालया ।। ६८१ ॥ आसनेषु समासीनाः, स्वोचितेषु यथाक्रमम् । बद्धाञ्जलिपुटास्तस्थुर्विज्ञीप्सव इव प्रभुम् ॥ ६८२ ॥ ततश्च नरदेवस्यादिदेवस्येव वासवाः । आभियोगिकदेवास्तेऽभिषेकाय डुढौकिरे ।। ६८३ ॥ स्वाभाविकक्रियैव, पयोगभैर्घनैरिव । वदनन्यस्तकमलै, रथाङ्गविहगैरिव ॥ ६८४ ॥ पतत्पानीयनादेन, तूर्यनादानुवादिभिः । ते रत्नकलसैश्चकुरभिषेकं महीपतेः । ६८५ ॥ [ युग्मम् ] १ नदीभ्यः । २ समुद्रात् । ३ गजेन । *ण सहितैर्ना आ ॥ + षमुत्तमम् सं १ ॥ ४ इन्द्रस्य । । द्वात्रिंशत्सहस्रसंख्या भू सं १ ॥ ५ वन्दनशीलाः | ६ चक्रवाकपक्षिभिः ।
t
For Private & Personal Use Only
प्रथमं पर्व
चतुर्थः
सगेः
ऋषभ जिनभरतचक्रिचरितम् ।
भरतस्य
चक्रवर्तित्वमहोत्सवः ।
॥११४॥
www.jainelibrary.org.