SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ तं द्वात्रिंशत् सहस्राणि, शुभेऽभिषिषिचुः क्षणे । नृपाः कुम्भै ठत्तोयैहर्षात् खनयनैरिव ॥ ६८६ ॥ ते शिरस्यञ्जलीन् बद्धा, पद्मकोशसहोदरान् । चक्रिणं वर्द्धयामासुर्जय त्वं विजयस्व च ॥ ६८७॥ सेनापतिप्रभृतयोऽपरे श्रेष्ठ्यादयश्च तम् । अभ्यषिञ्चन जलैर्वाक्यैश्चाऽस्तुवंस्तैरिवोज्वलैः ॥ ६८८ ॥ शुचिपक्ष्मलया गन्धकाषाय्या सुकुमारया । माणिक्यमिव तस्याऽङ्गममृजन्नथ ते भृशम् ॥ ६८९ ॥ गोशीर्षचन्दनरसै, राज्ञो विलिलिपुश्च ते । कान्तिपोषकरैरङ्गं, गैरिकैरिव काञ्चनम् ॥ ६९० ॥ शक्रप्रदत्तमृषभवामिनो मुकुटं ततः। मूर्ध्नि मूर्धाभिषिक्ताग्रेसरस्य निदधुः सुराः ॥ ६९१॥ ते पर्यधापयन् राज्ञा, कर्णयो रत्नकुण्डले । चित्रास्वाती इव मुखहिमांशोः पारिपार्श्वगे ॥ ६९२ ॥ तत्कण्ठे ते न्यधुहोरं, ग्रथितं शुचिमौक्तिकैः । अलक्ष्यसूत्रैयुंगपन्मालारूपोद्गमैरिव ॥ ६९३ ॥ निवेशयाम्बभूवे चाहारस्तैर्नृपोरसि । अलङ्करणराजस्य, हारस्य युवराडिव ॥ ६९४ ॥ अभ्रकान्तःपुटमये, इवाऽच्छच्छविशालिनी । वाससी देवदूष्ये ते, भूभुजा पर्यधापयन् ॥ ६९५ ॥ उद्दाम सुमनोदाम, नृपतेः कण्ठकन्दले । ते प्राक्षिपन्नुरोवेश्मच्छायावप्रमिव श्रियः ॥ ६९६ ॥ कल्पद्रुम इवाऽनय॑वस्त्रमाणिक्यभूषणः । भूपतिर्मण्डयामास, स्वाखण्डमिव मण्डपम् ॥ ६९७ ॥ आह्वाय्य वेत्रिपुरुषैः, स सर्वपुरुषाग्रणीः । आयुक्तपुरुषानेवमादिदेश विशालधीः ॥ ६९८ ॥ भो! यूयं सिन्धुरस्कन्धमधिरुह्य समन्ततः । पर्यट्य च प्रतिपथं, विनीतां नगरीमिमाम् ॥ ६९९ ॥ अशुल्कामकरादण्डाकुदण्डामविशद्भटाम् । नित्यप्रमोदां कुरुत, वर्षद्वादशकावधिः ॥ ७००॥ [युग्मम् ] * राज्ञां कु° संपारिपाश्चिके संी, परिपार्श्वगे खं,आ,सं२॥ १ अकरां अदण्डां अकुदण्डां इति पदत्रयस्य समासः। निषधि. २० Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy