SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व | चतुर्थः सर्गः ऋषभजिनभरतचक्रि| चरितम् । ॥११५॥ तत् तथा तत्क्षणादेव, ते चक्रुरधिकारिणः । रत्नं पञ्चदर्श ह्याज्ञा, चक्रिणः कार्यसिद्धिषु ॥ ७०१॥ रत्नसिंहासनात तस्मादुत्तस्थावथ पार्थिवः । प्रतिविम्बानि तस्येवाऽन्येऽप्युत्तस्थुः सहैव हि ॥ ७०२॥ निजागमनमार्गेणोत्ततार भरतेश्वरः । तथाऽन्येऽप्युत्तरन्ति स्म, स्नानपीठाद गिरेरिव ॥ ७०३॥ स्वप्रतापमिवाऽसह्यमारुह्य वरहस्तिनम् । महीपतिर्महोत्साहः, प्रासादमगमनिजम् ॥ ७०४॥ तत्र स्नानगृहं गत्वा, तोयैः स्नात्वा च निर्मलैः । चकाराऽष्टमभक्तान्तपारणं धरणीधवः ॥ ७०५॥ अभिषेकोत्सवे वृत्ते, तस्मिन् द्वादशवार्षिके । स्नातः कृतवलिः प्रायश्चित्तकौतुकमङ्गली ॥७०६॥ गत्वा च बहिरास्थानीमात्मरक्षकदेवताः । तान् षोडश सहस्राणि, सत्कृत्य व्यसृजन्नृपः ॥७०७॥ ततश्च प्रासादवरारूढो वैषयिकं सुखम् । भुञ्जानोऽस्थाद् विमानस्थ, इव शक्रो महीपतिः ॥ ७०८ ॥ चक्रं छत्रमसिर्दण्डो, रत्नान्येतानि जज्ञिरे । एकेन्द्रियाणि चत्वारि, तस्याऽऽयुधनिकेतने ॥ ७०९॥ काकिणीचर्ममणयो, निधयो नव चाऽभवन् । श्रीगृहे श्रीमतस्तस्य, माणिक्यानीव रोहणे ॥ ७१०॥ सेनापतिर्गृहपतिः, पुरोधो-बर्द्धकी अपि । चत्वारि नररत्नानि, स्वपुर्या तस्य जज्ञिरे ॥ ७११॥ गजा-ऽश्वरत्ने वैताव्यगिरेमले बभूवतुः । उदग्विद्याधरश्रेण्यां, स्त्रीरत्नं तूदपद्यत ॥ ७१२ ॥ नयनानन्ददायिन्या, मृा सोम इवाऽशुभत् । दुःसहेन प्रतापेन, भरतो भानुमानिव ॥ ७१३ ॥ अलब्धमध्यः सोऽम्भोधिरिव पुरूपतां गतः । प्राप्तो मनुष्यधर्मेव, मनुष्यस्वामितां पुनः ॥ ७१४ ॥ अशोभत महारत्नैः, स चतुर्दशभिः सदा । जम्बूद्वीप इव गङ्गासिन्धुप्रभृतिसिन्धुभिः ॥ ७१५॥ * षोडशसहस्रसङ्ख्याः , स° सं 1, खं ॥ आयुधशालायाम् । 1 काकणी खंता, सं २॥ २ पुरोहितः। भरतख राज्याई। ॥११५॥ Jan Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy