SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ CREASUSUSCRECORRESTOREA आचार्य इव सम्पूज्य, स्वाधिष्ठायकदेवताः । ताः षोडश सहस्राणि, व्यसृजजगतीपतिः ॥ ६५९ ॥ तद्वद्वात्रिंशतं राजसहस्राणि चमूपतिम् । पुरोहितं गृहपति, वर्द्धकिं विससर्ज सः॥ ६६०॥ 'सूदांश्च स त्रिषष्टीनि, शतानि त्रीणि भूपतिः । स्वस्थानायाऽऽदिशद् दृष्ट्याऽऽलानायेव मतङ्गजान् ॥६६१॥ श्रेष्टिनोऽष्टादशश्रेणिप्रश्रेणीर्दुर्गपालकान् । व्यसृजत् सार्थवाहानप्युत्सवान्तेऽतिथीनिव ॥ ६६२ ॥ शक्रः शच्येव सहितः, स्त्रीरत्नेन सुभद्रया । द्वात्रिंशता सहस्रैश्च, राज्ञीनां राजजन्मनाम् ॥ ६६३ ॥ तावतीभिर्जनपदाग्रणीकन्याभिरावृतः। प्रत्येकं द्वात्रिंशत्पात्रस्तावद्भिर्नाटकैरपि ॥ ६६४ ॥ मणिरत्नशिलाश्रेणिविश्राणितगुत्सवम् । प्रासादं प्राविशद् भूपः, कैलासमिव यक्षराद् ॥ ६६५ ॥ [त्रिभिर्विशेषकम् ] तत्र च प्रामुखः सिंहासने स्थित्वा क्षणं नृपः । कृत्वा च सङ्कथाः काश्चिद्, ययौ स्नाननिकेतनम् ॥६६६॥ सरसीव द्विपस्तत्र, कृत्वा स्नानं नरेश्वरः । समं परिजनेश्चक्रे, सुरसाहारभोजनम् ॥ ६६७ ॥ तैर्नाटकैनवरसैः, सङ्गीतैश्च मनोरमैः । निनाय कालं कमपि, योगैर्योगीव भूपतिः ॥ ६६८॥ तं च विज्ञपयामासुभक्त्या सुरनरा इति । सविद्याधरराजेयं, षट्खण्डाऽसाधि भूस्त्वया ॥ ६६९ ॥ अमांस्तदनुमन्यस्ख, शंतमन्युपराक्रम! । महाराज्याभिषेकं ते, स्वच्छन्दं कुर्महे यथा ॥ ६७० ॥ राज्ञा तथेत्यनुज्ञाताः, सुराः पुर्या बहिर्व्यधुः । सुधर्मायाः खण्डमिव, पूर्वोदग्दिशि मण्डपम् ॥ ६७१ ॥ * षोडशसहस्रसङ्ख्या, व्यसृ सं 1, खं ॥ सूदानां स खं ॥ १ पाचकान् । राशीभी राजजन्मभिः आ, सं२॥ २ कुबेरः। सर आ, सं १ ॥ ३ विद्याधरराजसहिता । ४ इन्द्रः। ५ ईशानदिशि । Jain Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy