SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरि ॥११३॥ Jain Education International ताडयन् सृर्णिदण्डेन, मध्येकुम्भस्थलं नृपः । मञ्चयोर्मञ्श्चयोरन्तः, स्थिरीचक्रे मतङ्गजम् ॥ ६४५ ॥ मञ्चानामुभयेषां चाऽग्रस्थाः प्रवरयोषितः । कर्पूरारात्रिकं चक्रुर्युगपच्चक्रवर्तिनः ॥ ६४६ ॥ भूपतिः पार्श्वयोर्भ्राम्यज्वलदारात्रिकस्तदा । बभारोभयपार्श्वस्थार्केन्दुमेरुगिरिश्रियम् ॥ ६४७ ॥ स्थालान्युत्क्षिप्य पूर्णानि, मौक्तिकैरक्षतैरिव । आपणाग्रे स्थितान् दृष्ट्वाऽऽलिलिङ्गेव स वाणिजान् ॥ ६४८ ॥ मार्गासन्नेषु हर्म्येषु, द्वारस्थकुलयोषिताम् । मङ्गलानि प्रतीयेषं, स्वसृणामिव पार्थिवः ॥ ६४९ ॥ दिदृक्षयाऽन्तिकीभूतान् जनान् परिजनानिव । वेत्रिभ्योऽरक्षदुत्क्षिप्ताभयप्रदकरो नृपः ॥ ६५० ॥ अग्रभूमावुभयतो, बद्धाभ्यामतिबन्धुरम् । सिन्धुराभ्यां राज्यलक्ष्मीक्रीडाद्रिभ्यामिवोच्चकैः ।। ६५१ ।। द्वारेणोभयतः स्वर्णकुम्भाभ्यामतिशोभिना । स्रोतसेव रथाङ्गाभ्यां, विशालेन विराजितम् ।। ६५२ ।। माकन्ददलपूर्णेन, तोरणेनाऽतिहारिणा । इन्द्रनीलमयग्रीवाभरणेनेव भूषितम् ।। ६५३ ॥ क्वचिन्मुक्ताकणगणैः, क्वचित् कर्पूरपांशुभिः । क्वचिच्च चन्द्रमणिभिः कृतस्वस्तिकमङ्गलम् ॥ ६५४ ॥ क्वचिच्च चीनवासोभिर्दुकूलवसनैः क्वचित् । देवदूष्यैरपि क्वापि, पताकामालभारिणम् || ६५५ ।। क्वचित् कर्पूरपानीयैः, पुष्पद्रुतिरसैः क्वचित् । क्वचिद् गजमदाम्भोभिरजिरे कृतसेचनम् ॥ ६५६ ॥ विश्रान्तपूषाणमिव, सुवर्णकलसच्छलात् । सप्तभ्रमं भूमिपालः, पित्र्यं प्रासादमासदत् । ६५७ ।। [ सप्तभिः कुलकम् ] तस्याङ्गणावलभीवेद्यां पादं निवेशयन् । उत्ततार द्विपाद् वेत्रिदत्तहस्तस्ततो नृपः ॥ ६५८ ॥ १ अङ्कुशेन । २ स्वीचकार । ३ भगिनीनाम् । ४ गजाभ्याम् । ५] अङ्गणे । For Private & Personal Use Only प्रथमं पर्व चतुर्थः सर्गः ऋषभजिन भरतचक्रि चरितम् । प्रासाद वर्णनम् । ॥११३॥ www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy