SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ SAUSOSAUGIOSOS मङ्गल्यतूर्यनिर्घोपप्रतिशब्दापदेशतः । रोदसीभ्यामपि भृशं, कृतमाङ्गलिकध्वनिः॥ ६३१ ॥ तेजोबिडोजा नृपतिर्भाण्डागारमिवौजसाम् । यतेन कुञ्जरं किश्चित् , प्रेरयन् प्रचचाल सः॥ ६३२ ॥ [अष्टभिः कुलकम् ] अवतीर्ण दिव इव, भूमध्यादिव चोत्थितम् । चिरायातं नृपं द्रष्टं, ग्रामादिभ्योऽभ्यगाजनः ॥ ६३३॥ सा राज्ञः सकला सेना, लोकश्च मिलितो बभौ । मर्त्यलोकः समग्रोऽपि, पिण्डीभूत इवैकतः॥६३४॥ नैरन्तर्यादनीकानां, लोकानां चाऽभ्युपेयुपाम् । मुक्तस्तिलोऽपि हि तदा, न पपात महीतले ॥ ६३५॥ स्तूयमानो मुदोत्तालैः, कैश्चिद् वैतालिकैरिव । वीज्यमानोऽञ्चलैः कैश्चिच्चञ्चलैचामरैरिव ॥ ६३६ ॥ भालस्थाञ्जलिभिः कैश्चिद् , वन्द्यमानोऽशुमानिव । अर्यमाणफलपुष्पः, कैश्चिदारामिकैरिव ॥ ६३७ ॥ प्रणम्यमानः स्वकुलदेवतेव च कैश्चन । कैश्चित प्रदीयमानाशीर्गोत्रवृद्धाजनैखि ॥ ६३८ ॥ प्रविवेश विशामीशश्चतुर्द्वारा पुरीं स ताम् । पूर्वद्वारेण समवसरणं नाभिभूरिख ॥६३९॥[चतुर्भिः कलापकम् प्रत्येकमपि मश्चेषु, सङ्गीतानि तदाऽभवन् । युगपल्लग्नघटिकातूर्यनादा इवोच्चकैः ॥ ६४०॥ पुरो गच्छति भूपाले, राजमार्गापणस्थिताः । मुदिताः पौरसुदृशो, लाजान् दृश इवाऽक्षिपन् ॥ ६४१॥ पौरप्रक्षिप्तकुसुमदामभिः पिहितोऽभितः । सोऽभूत् पुष्परथप्रायो, राजकुञ्जरकुञ्जरः ॥ ६४१॥ शनैः शनै राजपथे, प्रययौ जंगतीपतिः । उत्कण्ठितानां लोकानामकुण्ठोत्कण्ठया पुनः ॥ ६४३॥ नाजीगणन् गजभयमभ्यर्णेऽभ्येत्य भूभुजे । फलादीन्यार्पयन् पौराः, प्रमोदो बलवान् खलु ॥६४४॥ १ व्याजतः । २ तेजसा इन्दः। * यत्नेन खं। मदोत्तालैः सं २, आ॥ ३ भृष्टवीहीन् । जिगतांपतिः आ ॥ O CHOSOS Jain Education International For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy