Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
बहिर्विस्फुट्य गच्छन्तो, न्यवार्यन्त पदातयः । राजदौवारिकैर्वारिप्रवाहा इव सेतुभिः ॥ ४२०॥ मिथः समपदन्यासं, चेलू राजाज्ञया भटाः । ते तालेनैकसङ्गीतवर्त्तिनो नर्तका इव ॥ ४२१ ॥ अलचितनिजस्थानं, चलद्भिः सर्वसैनिकैः । पताकिन्यौ तयोरेकतनू इव विरेजतुः ॥ ४२२ ॥ दारयन्तः शताङ्गानां, रथाङ्गैरायसाननैः । अयःकुद्दालकल्पैश्च, खनन्तो वाजिनां खुरैः॥ ४२३ ॥ भिन्दाना वेसरखुरैर चन्द्ररिवाऽऽयसैः । क्षुन्दन्तश्च पदातीनां, चरणैर्वज्रपाणिभिः ॥ ४२४ ॥ खण्डयन्तः क्षुरप्राभैमहिपोक्षखुरैः खरैः । मुद्राभैः करिपादैचूर्णयन्तश्च मेदिनीम् ॥ ४२५॥ छादयन्तो रजोभिमन्धकारसहोदरैः । द्योतयन्तश्च शस्त्रोत्रैभानुमद्भानुबन्धुभिः ॥ ४२६ ॥ भूयसा निजभारेण, क्लिश्नन्तः कूर्मकर्परम् । दंष्ट्रां महावराहस्य, नामयन्तः समुन्नताम् ॥ ४२७॥ गाढं शिथिलयन्तश्च, फणाटोपं फणीशितुः। दिग्गजानपि खर्वाङ्गीकुर्वन्तो निखिलानपि ॥ ४२८॥ ब्रह्माण्डमाण्ड क्ष्वेडाभिर्वादयन्त इवोच्चकैः । करास्फोटप्रणादैश्च, स्फोटयन्त इवोत्कटैः॥ ४२९॥ उपलक्ष्योपलक्ष्योचैर्विश्रुतैः केतुलाञ्छनैः । नामग्राहं च वृण्वन्तः, प्रतिवीरान महौजसः॥ ४३०॥ अन्योन्यमाह्वयमाना, मानशौण्डीर्यशालिनः । अग्रसैन्यैरग्रसैन्या, अमिलन सैन्ययोद्वयोः ॥ ४३१॥
[नवभिः कुलकम् ] गजिनो गजिनां यावद्, यादांसि यादसामिव । सादिनां सादिनो यावद् , वीचिनामिव वीचयः॥४३२॥ रथिनां रथिनो यावद् , वायूनामिव वायवः । पत्तीनां पत्तयो यावच्छ्रङ्गिणामिव शृङ्गिणः ॥ ४३३॥ १ राजद्वारपालैः। २ रथानाम् । ३ चकैः । ४ महिषवृषखुरैः। ५सूर्यकिरणसदृशैः। ६ कूर्मपृष्ठम्। ७ कुटजीकुर्वन्तः । ८ सिंहनादैः ।
Jain Education Interne
l l
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410