Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tikat tatha Hindi Vivechanamrut Part 01 02
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 57
________________ प्रथमोऽध्यायः [ २१ [२] स्वामित्वम् - कस्य सम्यग्दर्शनम् ? एतद् सम्यग्दर्शनं श्रात्मसंयोगेन परसंयोगेन तथा द्वयोः संयोगेनापि प्राप्तो भवति । तेषु श्रात्मसंयोगेन जीवस्य सम्यग्दर्शनं वाच्यम् । परसंयोगेन जीवस्याऽजीवस्य जीवयोरजीवयोः, जीवानामजीवानां चेति विकल्पाः सम्यग्दर्शनं वाच्यम् । उभयसंयोगेन जीवस्य नोजीवस्य, जीवयोरजीवयोः, जीवानामजीवानां चेति विकल्पा न सन्ति । शेषास्तु सन्ति एव । १।७] [३] साधनम् - केन भवति सम्यग्दर्शनम् ? निसर्गाद् श्रधिगमाद् वा सम्यग्दर्शनं भवति । इमे ऽपि दर्शनमोहनीय कर्मणां क्षयाद् उपशमाद् क्षयोपशमाच्च भवतः । [४] श्रधिकरणम् - त्रिप्रकारकं भवति । तद्यथा - आत्मसन्निधानं, परसन्निधानं, उभयसन्निधानं च । तेषु आत्मसन्निधानं अर्थात् अभ्यन्तरसन्निधानम्, परसन्निधानंअर्थात् बाह्यसन्निधानम्, उभयसन्निधानं च बाह्याभ्यन्तरसन्निधानं कथ्यते । कस्मिन् सम्यग्दर्शनं भवति ? आत्मसन्निधानापेक्षायां तावद् जीवे सम्यग्दर्शनं भवति । सम्यग्ज्ञानं सम्यग्चारित्रमपि । बाह्यसन्निधानापेक्षायां तावद् जीवे सम्यग्दर्शनं नोजीवे सम्यग्दर्शनमिति पूर्वकथिता विकल्पा ज्ञातव्या । उभयसन्निधानापेक्षायां चाप्यभूताः सद्भूताश्च पूर्वकथिता भङ्गविकल्पा इति । [५] स्थिति:- कियन्तं कालं सम्यग्दर्शनं तिष्ठति ? सम्यग्दृष्टिः सादि- सान्तस्तथा साद्यनन्तः इति द्विविधा भवति । सम्यग्दर्शनं [ क्षयोपशमसम्यक्त्वं ] सादिसान्तमेवास्ति । एतत् तु जघन्यतोऽर्थाद् न्यूनातिन्यूनमन्तर्मुहूत्तं, उत्कृष्टतोऽर्थादधिकं षट्षष्टिसागरोपमकालात् किञ्चिदधिकं तिष्ठति । क्षायिकसम कितीछद्मस्थजीवस्य सम्यग्दृष्टिः सादिसान्तः, सयोगी प्रयोगी - केवलीनां सिद्धानां च सम्यग्दृष्टिः सादि अनन्तो भवति । [६] विधानम् - कतिविधा भेदाः सम्यग्दर्शनस्य ? हेतुभेदस्यापेक्षायाः त्रैविध्यात् क्षयादित्रिविधं सम्यग्दर्शनम् । तस्यावरणीयस्य दर्शनमोहनीयस्य कर्मणो क्षयादिभ्यश्चेति । तद्यथा - क्षायिकसम्यग्दर्शनं, प्रपशमिकसम्यग्दर्शनं, क्षायोपशमिकसम्यग्दर्शनमिति अत्र च औपशमिकं, क्षायोपशमिकं तथा क्षायिकमिति त्रिप्रकारकं सम्यक्त्वमुत्तरोत्तरं विशुद्ध ं भवति ।। ७ ।। * सूत्रार्थ - [१] निर्देश, [२] स्वामित्व, [३] साधन, [४] अधिकरण,

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166