Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tikat tatha Hindi Vivechanamrut Part 01 02
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 110
________________ ७४ ] श्रीतत्त्वार्थाधिगमसूत्रे [ ११३५ सामान्यस्य तथा विशेषादेरनेकधर्मस्य पृथग्-पृथग् ग्रहणकर्ता नयः नैगमनयः कथ्यते । सर्वपरिक्षेपी नैगमनयः सामान्यग्राही, तथा देशपरिक्षेपी नैगमनयः विशेषग्राही कथ्यते । सामान्यमात्रस्य ग्रहणकर्ता नयः संग्रहनयो भवति । तस्य द्वौ भेदौ स्तः, परसंग्रहः अपरसंग्रहश्चेति । समस्तविशेषधर्मात् उदासीनो भूत्वा सत्तारूपसामान्यस्यैव बोधकः परसंग्रहः कथ्यते। तथा यो द्रव्यत्वाद्यवान्तर-सामान्यस्य ग्रहणकर्ता सः अपरसंग्रहः कथ्यते । संग्रहननेन विषयीभूतस्य ज्ञातपदार्थस्य विधानं कृत्वा तस्यैव विभागकारकः योऽध्यवसायविशेषः स व्यवहारनयः । यथा सत् तद् द्रव्यं पर्यायस्वरूपं वा। यथा-द्रव्यस्य षड्भेदाः भवन्ति । द्वौ (शब्दाौँ ) च पर्यायौ भवतः । ऋजुः अर्थात् वर्तमानक्षणे स्थितं पर्यायमात्र विशेषरूपेण गृह्णाति यः स ऋजुसूत्रनयः। यथा-'साम्प्रतं सुखमस्ति' इति । अत्र ऋजुसूत्रनयः सुखरूपवर्तमानमेव पर्यायमात्रं गृह्णाति । काल-कारक-लिङ्ग-कालादीनां संख्यायाः तथोपसर्गस्य भेदेन शब्दस्य भिन्नार्थस्वीकृतिकर्ता शब्दनयः कथ्यते । यथा-मेरुपर्वतः आसीत्, अस्ति, भविष्यति च । अत्र शब्दनयोऽतीत-वर्तमान-भविष्यकालभेदेन मेरुपर्वतमपि भिन्नं मन्यते । पर्यायशब्देषु व्युत्पत्तिभेदेन भिन्नार्थग्रहणकर्ता नयः समभिरूढ़ः नयः कथ्यते । शब्दनयः पर्यायस्य भेदेऽपि अर्थस्याभिन्नतां मन्यते, किन्तु समभिरूढनयः पर्यायस्य भेदे भिन्नार्थं स्वीकरोति । यथा-समृद्धिमत्वेन इन्द्रः कथ्यते, पुरस्य विदारकत्वेन पुरन्दरः कथ्यते। शब्दानां प्रवृत्तेः कारणस्वरूपं क्रियासहितं अर्थं वाच्यरूपेण स्वीकुर्वन् नयः एवंभूतनयोः भवित । यथा-जलधारणादिचेष्टासहित एव घटो घटो भवति । किन्तु जलधारणादि-चेष्टारहित दशायां घटं घटं न मन्यते । येषु प्रथमतश्चत्वारः अर्थाणां प्रतिपादनपराः, तेन एते प्रथमे चत्वारः अर्थनयाः कथ्यन्ते। किन्तु परेषां त्रयाणां नयानां मुख्यरीत्या शब्द-वाच्यार्थविषयत्वेन ते शब्दनयाः कथ्यन्ते। अन्यप्रकारेणापि नयानां भेदः प्रदर्शितोऽस्ति । यथा विशेपग्राहिणो ये नयाः भवन्ति ते अर्पितनयाः कथ्यन्ते। ये च नयाः सामान्यग्राहिणो भवन्ति ते अनपितनयाः कथ्यन्ते । पुनश्च लोकप्रसिद्धानामर्थानां ग्राहको नयः व्यवहारनयः। तथा तात्त्विका

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166