Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tikat tatha Hindi Vivechanamrut Part 01 02
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text
________________
१।३५ ]
प्रथमोऽध्यायः (४) ऋजसत्रनय-जो केवल वर्तमान पर्याय को ग्रहण करता है, उसे 'ऋजसत्रनय' कहते हैं। शुद्ध वर्तमान क्षणवर्ती पर्याय का ग्रहण अथवा निरूपण नहीं किया जा सकता है। कारण कि इसका उदाहरण नहीं बन सकता है, तो भी स्थूलदृष्टि से इसको उदाहरण रूप में घटा सकते हैं; जैसे कि देवगति में उत्पन्न हुए जीव को अामरणान्त देव कहना या मनुष्यगति में उत्पन्न हुए जीव को अामरणान्त मनुष्य कहना।
(५) शब्दनय-जो कर्ता आदि कारकों के व्यवहार को सिद्ध करने वाला हो, या लिङ्ग आदि के व्यभिचार की निवृत्ति करने वाला हो, उसे 'शब्दनय' कहते हैं। जैसे-किसी भी वस्तुपदार्थ को भिन्न-भिन्न लिङ्ग वाले शब्दों के द्वारा निरूपण करना। इस तरह यहाँ नैगमादि नयों के सामान्य से पाँच भेद कहे हैं ॥३४।।
आद्यशब्दौ द्वि-त्रि-भेदौ ॥ ३५ ॥
ॐ सुबोधिका टीका ॐ आद्यस्य नैगमनयस्य द्वौ भेदौ स्तः । देशपरिक्षेपी सर्वपरिक्षेपी च। एवं शब्दनयस्य त्रयो भेदाः भवन्ति । यथा-साम्प्रतः, समभिरूढः, एवम्भूतश्चेति । उपर्युक्तनैगमादिसप्तनयानां लक्षणादिकं अनया रीत्या दर्श्यते । तद्यथा-देशे शास्त्रे वा प्रचलितस्य शब्दस्य, अर्थस्य, शब्दार्थस्य वा परिज्ञानं नयः स नैगममयः देशग्राही सर्वग्राही च । अर्थानां सर्वदेशे अथवा एकदेशे संग्रहः सः संग्रहनयः। लौकिकरूपेण औपचारिकरूपेण विस्तारार्थस्य बोधको व्यवहारनयो भवति । विद्यमानस्य अर्थस्य कथनं ज्ञानं वा ऋजसत्रनयो भवति । यथार्थवस्तूनां कथनं स शब्दनयो भवति । शब्देन योऽर्थस्य प्रत्यज्ञानं तद् साम्प्रतं शब्दनयः तथा विद्यमाने अर्थे यः तस्य असंक्रमः स समभिरूढनयः। व्यञ्जने अर्थे च प्रवृत्तः एवंभूतनयो भवति ।।
प्रत्येके वस्तूनि अनन्ता धर्माः तिष्ठन्ति । तेषु अभीष्टधर्मस्य ग्राहकः तदतिरिक्तधर्माणां अनपलापकः यः ज्ञातुरध्यवसायविशेषः स नयः कथ्यते । स नयः प्रमाणस्य अंशभूतो भवति । तेन प्रमाणस्य नयस्य च परस्परं भेदस्तिष्ठति । यथा-समुद्रस्यैकदेशः समुद्रो न, असमुद्रोऽपि न । तथैव नयः प्रमाणं न, प्रमाणाद् भिन्नोऽपि न, किन्तु प्रमाणस्यैकदेशः कथ्यते । तस्य नयस्य द्रव्याथिक-पर्यायार्थिक इति द्वौ भेदौ स्तः । द्रव्यमात्रस्य बोधको नयः द्रव्याथिकनयः कथ्यते। तेषु नैगमस्य संग्रहस्य व्यवहारस्य च नयस्य समावेशो बोधव्यः । तथा यः पर्यायमात्रस्य ग्रहणं करोति सः पर्यायाथिकनयः कथ्यते । तेषु ऋजुसूत्रस्य साम्प्रतस्य (शब्दस्य) समभिरूढस्य एवंभूतस्येति चतुर्णां नयानां समावेशो भवति ।