Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tikat tatha Hindi Vivechanamrut Part 01 02
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 111
________________ ११३५ ] प्रथमोऽध्यायः [ ७५ नामर्थानां स्वीकारकर्ता नयः निश्चयनयः बोधव्यः । यथा-व्यवहारनयः भ्रमरस्य पञ्चवर्णत्वेऽपि श्यामो भ्रमरः इति कथयति । तथा तं निश्चयनयः पञ्चवर्णकं भ्रमरं मन्यते । ज्ञानं मोक्षसाधनं इति मन्यमानो नयः ज्ञाननयः। तथा क्रिया एव मोक्षसाधिका इति मन्यमानः क्रियानयः । अथ प्रसङ्गात् 'नयाभास' स्वरूपं वर्ण्यते अनन्तधर्मात्मकेषु वस्तुषु अभिप्रेतं धर्म स्वीकरोति तथा तद् विपरीतं धर्म तिरस्करोति यः स नयाभासः -कथ्यते । अतः द्रव्यमात्रस्य ग्रहणकर्ता पर्यायस्य तिरस्कर्ता नयः द्रव्याथिकनयाभासः, तथा पर्यायमात्रस्य ग्राहकः तदतिरिक्तद्रव्यस्य तिरस्कर्ता नयः पर्यायाथिकनयाभासो बोधव्यः । धर्मिणो धर्मस्य च एकान्तभेदं मन्यमानः नैगमाभासः भवति । यथा-नैयायिकदर्शने वैशेषिकदर्शने च । सत्तारूपमहासामान्यं मन्यमानः तथा समस्तविशेष खण्डयितु प्रवृत्तः संग्रहाभासो भवति । यथा-अद्वतवाददर्शने सांख्यदर्शने च अपारमार्थिकस्यापि द्रव्यपर्यायस्य विभागकरणं व्यवहाराभासो भवति । एवं चार्वाकदर्शने जीवस्य तथा तद्रव्यपर्यायादेश्च चतुर्व्यः भूतेभ्यः पार्थक्यं नास्ति, केवलं भूतस्यैव सत्ता स्वीकरोति । वर्तमानपर्यायस्य स्वीकर्ता तथा सर्वथा द्रव्यस्यापलापकर्ता ऋजुसूत्राभासो भवति, यथा बौद्धदर्शनम् । ___ कालादिभेदेन वाच्यस्यैव (अर्थस्यैव) भेदं मन्यमानः शब्दाभासो भवति । यथामेरुपर्वतोऽभूत्, अस्ति, भविष्यतीति शब्दः भिन्नमेवार्थं कथयति । पर्यायशब्दानां भिन्नभिन्नार्थस्य स्वीकरणं समभिरूढाभासः कथ्यते । यथा-इन्द्रः शक्रः पुरन्दरः आदि-शब्दः भिन्नभिन्नमेव स्वार्थं दर्शयति, इत्थं यत्र मान्यताऽस्ति सः समभिरूढ़ाभासः कथ्यते । क्रियारहितवस्तूनां वाच्यं (अर्थः) न भवति, इत्येवं मन्यमानः एवंभूताभासो नयः । यथा-चेष्टारहितो घट: घटशब्दः बोध्यो न भवति । सारांश:(१) सामान्य-विशेषयोर्बोधकः नैगमनयः । (२) सामान्यस्य बोधकः संग्रहनयः । (३) विशेषस्य बोधकः व्यवहारनयः । (४) केवलं वर्तमानकालस्य बोधकः ऋजुसूत्रनयः ।

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166