________________
११३५
]
प्रथमोऽध्यायः
[ ७५
नामर्थानां स्वीकारकर्ता नयः निश्चयनयः बोधव्यः । यथा-व्यवहारनयः भ्रमरस्य पञ्चवर्णत्वेऽपि श्यामो भ्रमरः इति कथयति । तथा तं निश्चयनयः पञ्चवर्णकं भ्रमरं मन्यते । ज्ञानं मोक्षसाधनं इति मन्यमानो नयः ज्ञाननयः। तथा क्रिया एव मोक्षसाधिका इति मन्यमानः क्रियानयः ।
अथ प्रसङ्गात् 'नयाभास' स्वरूपं वर्ण्यते
अनन्तधर्मात्मकेषु वस्तुषु अभिप्रेतं धर्म स्वीकरोति तथा तद् विपरीतं धर्म तिरस्करोति यः स नयाभासः -कथ्यते । अतः द्रव्यमात्रस्य ग्रहणकर्ता पर्यायस्य तिरस्कर्ता नयः द्रव्याथिकनयाभासः, तथा पर्यायमात्रस्य ग्राहकः तदतिरिक्तद्रव्यस्य तिरस्कर्ता नयः पर्यायाथिकनयाभासो बोधव्यः । धर्मिणो धर्मस्य च एकान्तभेदं मन्यमानः नैगमाभासः भवति । यथा-नैयायिकदर्शने वैशेषिकदर्शने च । सत्तारूपमहासामान्यं मन्यमानः तथा समस्तविशेष खण्डयितु प्रवृत्तः संग्रहाभासो भवति । यथा-अद्वतवाददर्शने सांख्यदर्शने च अपारमार्थिकस्यापि द्रव्यपर्यायस्य विभागकरणं व्यवहाराभासो भवति ।
एवं चार्वाकदर्शने जीवस्य तथा तद्रव्यपर्यायादेश्च चतुर्व्यः भूतेभ्यः पार्थक्यं नास्ति, केवलं भूतस्यैव सत्ता स्वीकरोति । वर्तमानपर्यायस्य स्वीकर्ता तथा सर्वथा द्रव्यस्यापलापकर्ता ऋजुसूत्राभासो भवति, यथा बौद्धदर्शनम् ।
___ कालादिभेदेन वाच्यस्यैव (अर्थस्यैव) भेदं मन्यमानः शब्दाभासो भवति । यथामेरुपर्वतोऽभूत्, अस्ति, भविष्यतीति शब्दः भिन्नमेवार्थं कथयति । पर्यायशब्दानां भिन्नभिन्नार्थस्य स्वीकरणं समभिरूढाभासः कथ्यते । यथा-इन्द्रः शक्रः पुरन्दरः आदि-शब्दः भिन्नभिन्नमेव स्वार्थं दर्शयति, इत्थं यत्र मान्यताऽस्ति सः समभिरूढ़ाभासः कथ्यते ।
क्रियारहितवस्तूनां वाच्यं (अर्थः) न भवति, इत्येवं मन्यमानः एवंभूताभासो नयः । यथा-चेष्टारहितो घट: घटशब्दः बोध्यो न भवति ।
सारांश:(१) सामान्य-विशेषयोर्बोधकः नैगमनयः । (२) सामान्यस्य बोधकः संग्रहनयः । (३) विशेषस्य बोधकः व्यवहारनयः । (४) केवलं वर्तमानकालस्य बोधकः ऋजुसूत्रनयः ।