________________
७४ ]
श्रीतत्त्वार्थाधिगमसूत्रे
[
११३५
सामान्यस्य तथा विशेषादेरनेकधर्मस्य पृथग्-पृथग् ग्रहणकर्ता नयः नैगमनयः कथ्यते । सर्वपरिक्षेपी नैगमनयः सामान्यग्राही, तथा देशपरिक्षेपी नैगमनयः विशेषग्राही कथ्यते । सामान्यमात्रस्य ग्रहणकर्ता नयः संग्रहनयो भवति । तस्य द्वौ भेदौ स्तः, परसंग्रहः अपरसंग्रहश्चेति । समस्तविशेषधर्मात् उदासीनो भूत्वा सत्तारूपसामान्यस्यैव बोधकः परसंग्रहः कथ्यते। तथा यो द्रव्यत्वाद्यवान्तर-सामान्यस्य ग्रहणकर्ता सः अपरसंग्रहः कथ्यते । संग्रहननेन विषयीभूतस्य ज्ञातपदार्थस्य विधानं कृत्वा तस्यैव विभागकारकः योऽध्यवसायविशेषः स व्यवहारनयः । यथा सत् तद् द्रव्यं पर्यायस्वरूपं वा। यथा-द्रव्यस्य षड्भेदाः भवन्ति । द्वौ (शब्दाौँ ) च पर्यायौ भवतः ।
ऋजुः अर्थात् वर्तमानक्षणे स्थितं पर्यायमात्र विशेषरूपेण गृह्णाति यः स ऋजुसूत्रनयः। यथा-'साम्प्रतं सुखमस्ति' इति । अत्र ऋजुसूत्रनयः सुखरूपवर्तमानमेव पर्यायमात्रं गृह्णाति ।
काल-कारक-लिङ्ग-कालादीनां संख्यायाः तथोपसर्गस्य भेदेन शब्दस्य भिन्नार्थस्वीकृतिकर्ता शब्दनयः कथ्यते । यथा-मेरुपर्वतः आसीत्, अस्ति, भविष्यति च । अत्र शब्दनयोऽतीत-वर्तमान-भविष्यकालभेदेन मेरुपर्वतमपि भिन्नं मन्यते ।
पर्यायशब्देषु व्युत्पत्तिभेदेन भिन्नार्थग्रहणकर्ता नयः समभिरूढ़ः नयः कथ्यते । शब्दनयः पर्यायस्य भेदेऽपि अर्थस्याभिन्नतां मन्यते, किन्तु समभिरूढनयः पर्यायस्य भेदे भिन्नार्थं स्वीकरोति । यथा-समृद्धिमत्वेन इन्द्रः कथ्यते, पुरस्य विदारकत्वेन पुरन्दरः कथ्यते।
शब्दानां प्रवृत्तेः कारणस्वरूपं क्रियासहितं अर्थं वाच्यरूपेण स्वीकुर्वन् नयः एवंभूतनयोः भवित । यथा-जलधारणादिचेष्टासहित एव घटो घटो भवति । किन्तु जलधारणादि-चेष्टारहित दशायां घटं घटं न मन्यते ।
येषु प्रथमतश्चत्वारः अर्थाणां प्रतिपादनपराः, तेन एते प्रथमे चत्वारः अर्थनयाः कथ्यन्ते। किन्तु परेषां त्रयाणां नयानां मुख्यरीत्या शब्द-वाच्यार्थविषयत्वेन ते शब्दनयाः कथ्यन्ते।
अन्यप्रकारेणापि नयानां भेदः प्रदर्शितोऽस्ति । यथा विशेपग्राहिणो ये नयाः भवन्ति ते अर्पितनयाः कथ्यन्ते। ये च नयाः सामान्यग्राहिणो भवन्ति ते अनपितनयाः कथ्यन्ते । पुनश्च लोकप्रसिद्धानामर्थानां ग्राहको नयः व्यवहारनयः। तथा तात्त्विका