________________
प्रथमोऽध्यायः
[ २१
[२] स्वामित्वम् - कस्य सम्यग्दर्शनम् ? एतद् सम्यग्दर्शनं श्रात्मसंयोगेन परसंयोगेन तथा द्वयोः संयोगेनापि प्राप्तो भवति । तेषु श्रात्मसंयोगेन जीवस्य सम्यग्दर्शनं वाच्यम् । परसंयोगेन जीवस्याऽजीवस्य जीवयोरजीवयोः, जीवानामजीवानां चेति विकल्पाः सम्यग्दर्शनं वाच्यम् । उभयसंयोगेन जीवस्य नोजीवस्य, जीवयोरजीवयोः, जीवानामजीवानां चेति विकल्पा न सन्ति । शेषास्तु सन्ति एव ।
१।७]
[३] साधनम् - केन भवति सम्यग्दर्शनम् ? निसर्गाद् श्रधिगमाद् वा सम्यग्दर्शनं भवति । इमे ऽपि दर्शनमोहनीय कर्मणां क्षयाद् उपशमाद् क्षयोपशमाच्च भवतः ।
[४] श्रधिकरणम् - त्रिप्रकारकं भवति । तद्यथा - आत्मसन्निधानं, परसन्निधानं, उभयसन्निधानं च । तेषु आत्मसन्निधानं अर्थात् अभ्यन्तरसन्निधानम्, परसन्निधानंअर्थात् बाह्यसन्निधानम्, उभयसन्निधानं च बाह्याभ्यन्तरसन्निधानं कथ्यते ।
कस्मिन् सम्यग्दर्शनं भवति ? आत्मसन्निधानापेक्षायां तावद् जीवे सम्यग्दर्शनं भवति । सम्यग्ज्ञानं सम्यग्चारित्रमपि । बाह्यसन्निधानापेक्षायां तावद् जीवे सम्यग्दर्शनं नोजीवे सम्यग्दर्शनमिति पूर्वकथिता विकल्पा ज्ञातव्या । उभयसन्निधानापेक्षायां चाप्यभूताः सद्भूताश्च पूर्वकथिता भङ्गविकल्पा इति ।
[५] स्थिति:- कियन्तं कालं सम्यग्दर्शनं तिष्ठति ? सम्यग्दृष्टिः सादि- सान्तस्तथा साद्यनन्तः इति द्विविधा भवति । सम्यग्दर्शनं [ क्षयोपशमसम्यक्त्वं ] सादिसान्तमेवास्ति । एतत् तु जघन्यतोऽर्थाद् न्यूनातिन्यूनमन्तर्मुहूत्तं, उत्कृष्टतोऽर्थादधिकं षट्षष्टिसागरोपमकालात् किञ्चिदधिकं तिष्ठति । क्षायिकसम कितीछद्मस्थजीवस्य सम्यग्दृष्टिः सादिसान्तः, सयोगी प्रयोगी - केवलीनां सिद्धानां च सम्यग्दृष्टिः सादि अनन्तो भवति ।
[६] विधानम् - कतिविधा भेदाः सम्यग्दर्शनस्य ? हेतुभेदस्यापेक्षायाः त्रैविध्यात् क्षयादित्रिविधं सम्यग्दर्शनम् । तस्यावरणीयस्य दर्शनमोहनीयस्य कर्मणो क्षयादिभ्यश्चेति । तद्यथा - क्षायिकसम्यग्दर्शनं, प्रपशमिकसम्यग्दर्शनं, क्षायोपशमिकसम्यग्दर्शनमिति अत्र च औपशमिकं, क्षायोपशमिकं तथा क्षायिकमिति त्रिप्रकारकं सम्यक्त्वमुत्तरोत्तरं विशुद्ध ं भवति ।। ७ ।।
* सूत्रार्थ - [१] निर्देश, [२] स्वामित्व, [३] साधन, [४] अधिकरण,