Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 151
________________ ३९६ प्रमाणनयतत्वालोकालङ्कारः [परि. २ सू. २६ तत्त्वान्तरं भूतेभ्यश्चैतन्यं तद्भिन्नलक्षणत्वान्यथानुपपत्तेः । नात्रासिद्धो हेतुः । क्षित्यादिभूतेभ्यो रूपादिसामान्यलक्षणेभ्यः स्वसंवेदनलक्षणस्य चैतन्यस्य भिन्नलक्षणत्यसिद्धेः । न हि भूतानि स्वसंवेदनलक्षणानि अस्मदायनेकप्रतिपतृप्रत्यक्षत्वात् ! यत्पुनः स्वसंवेदनलक्षणं तन्न तथा प्रतीतं यथा ज्ञानम् । तथा च भूतानि तस्मान्न स्वसंवेदनलक्षणानि । अनेकयोगिप्रत्यक्षण सुखादिसंवेदनेन व्यभिचारी हेतुरिति न शङ्कनीयम् । अस्मदादिग्रहणात् । न च ज्ञानस्थ स्वसंवेदनलक्षणत्वमसिद्धम् ! अधस्तात्सप्रपञ्चमुपपादितत्वात् । तदेवं भूतचैतन्ययोभिन्नलक्षणत्वं प्रसिद्धं सत्तत्त्वान्तरत्वं तयोः साधयति । तच्चासजातीयत्वम् । तदप्युपादानोपादेयभावाभावम् । उपादानोपादेयभावस्य सजातीयत्वप्रयोजकत्वात् । तदेवं भूतचेतनयोर्नास्त्युपादानोपादेयभावो भिन्नलक्षणत्वादिति । व्यापकविरुद्धम्य व्याप्तोपलब्धिः । उपादानोपादेयभावव्यापकस्य सजातीयत्वविशेषस्योपादानोपादेयभावव्यापकत्वमसिद्धम् । विजातीयत्वाभिमतयोः पयःपावकयोः सत्त्वादिना सजातीययोरप्युपादा१२ नोपादेयभावानभ्युपगमात् । कथंचिद्विजातीययोरपि मृद्धटाकारयोः पार्थि वत्वादिना विशिष्टसामान्येन सजातीययोरुपादानोपादेयभावसिद्धेः । कथं तर्हि सजातीयत्वविशेषस्य तत्त्वान्तरभावेन विरोध इति चेत् । तत्त्वान्तरभूतयोर्जलानलयोः सजातीयत्वविशेषस्य जलत्वादेरनुपलम्भात् । पूर्वाकारापरित्यागाज द्वृत्तोत्तराकारान्वयप्रत्ययविषयस्योपादानत्वप्रतीतेः । परित्यक्तपूर्वाकारेण द्रव्येणात्मसाक्रियमाणोत्तराकारस्योपादेयत्वविज्ञानात् । अन्यथातिप्रसङ्गात् । कथं तत्त्वान्तरभावेन भिन्नलक्षणत्वं व्याप्तमिति चेत् । उच्यते । तत्त्वान्तरभावस्याभावे भिन्नलक्षणत्वस्यानुपपद्यमानत्वात् । किण्वादिमदिरादिपरिणामयोरतत्त्वान्तरभावेऽपि भिन्नलक्षणत्वस्य दर्शनात्तस्य तत्त्वान्तरभावेनाव्याप्तिरिति चेत् । न । २५ तयोभिन्नलक्षणत्वासिद्धेः । किप्वादिरपि मदजननशक्तिसद्भावान्मदि. १ तस्मान' इत्यधिक प. भ. पुस्तकयोः । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242