Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २६ द्रव्यादपि हव्याशनानुमानप्रसङ्गो दुप्परिहारः । व्यभिचारोत्तरस्य दूषितत्वात् । तस्मात्कार्यजातिविशेषप्रबद्धमेवाध्यक्षण प्रतिबन्धबोधनम् । यदि च कार्यजातिभेदे प्रवृत्तमपि प्रत्यक्ष कार्यमात्रमधिष्ठानीकरोति ।
कारणेऽपि तर्हि प्रवर्तमानं कारणमात्रमेव व्यापकमवधारयतु । कम्मा५ हुद्धिमद्रूपं तदवलम्बते । ततो यदि न भवदभिप्रायानुरोधोऽध्यक्षस्यो
भयत्र सामान्यावलम्बिना विशेषावलम्बिना वा भवितव्यमनेन । सामान्यावलम्बने कार्यात्कारणमात्रानुमितौ का वार्ता विरूपाक्षसिद्धेः । विशेषावलम्बने च कार्यमात्रेण व्याप्तिरसिद्धेति । तस्मादनुभवाद्युक्तेश्व विशिष्टामेव कार्यजाति हेतुविशेषव्याप्तामुपदर्शयति प्रत्यक्षमिति स्थितम् । प्रयोगः- यद्यत्कार्यकारणभावग्राहि प्रत्यक्षं तत्तद्विशिष्टजातिप्रतिनियत. व्यापारम् । यथानिधूमयोः । तथा चेदं बुद्धिमता कार्यस्य व्याप्तिसाधनमिति । नास्यान्यथा व्यापाराशङ्कयाऽनेकान्तः । कारणानुपलब्धिबाधितत्वात् । कारणभेदो हि कार्यभेदस्य कारणम् । अन्यथा सर्वस्या
हेतुकत्वप्रसङ्गात् । न च प्रत्यक्षस्य कारणभेदः । विषयेन्द्रियालोकादि१५ लक्षणसमानसामग्रीप्रभवत्वादिति । दृष्टान्ते साध्यशून्यताशङ्कायां
च यद्यत्प्रत्यक्षं तत्तद्विशिष्टजातिप्रतिनियतव्यापारं यथा व्यभिचारग्राहि । प्रत्यक्षं चानिधूमयोः कार्यकारणभावग्राहीति बाधकमभिधानीयम् । अत्रापि स एवानेकान्तपरिहारः । एवं च कार्यजातीनामत्यन्तविल
क्षणानामानन्त्यात्प्रतिजातिभेदं च व्याप्तिग्रहणापेक्षणाद्यावज्जातिक २० कार्य वुद्धिमत्यूर्वकं परिच्छिन्नं तावत एवानुमानमसमञ्जसमित्यसमञ्जसम्।
कीदृशी पुनः कार्यजातिर्बुद्धिमता व्याप्तेति चेत् ! उच्यते । यद्दष्टेरक्रियादर्शिनोऽपि कृतवुद्धिः । किं सा साधनबुद्धिरथ प्रकृतसाध्यबुद्धिः । साधनबुद्धिस्तावद्भवतां सिद्धैव क्षित्यादीनां कार्यतया सम्मतत्वात् ।
अथोत्तरः पक्षः । तेनायमों भवति नेदं क्षित्यादिधूपलभ्यमानं ६५ साध्यानुमानसमर्थ कार्यत्वं किन्त्वन्यदेव साध्यबुद्धयजननात् । न
१ 'कारणभेदोऽस्ति' इति प. भ. पुस्तकयोः पाठः ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242