Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 226
________________ परि. २ स्. २५] स्याद्वादरत्नाकरसहितः तत्परिकल्पना श्रेयसी। ख्यादिसेवनपरिकल्पनावत् । कर्मणामपि क्षपणं पूर्वोपार्जितानां भुक्तिकालोपार्जितानां वा तत्राऽईतां विधीयेत । पूर्वोपार्जितानां चेत्, धातिनामघातिन वा । न तावद्धातिनाम् , तेषां पूर्वमेव क्षपितत्वात् । नाप्रघातिनाम् , तेषां यथाकालं क्षपथिप्यमाणत्वात् । सततं शुक्लध्यानानलतः कर्मेन्धननिचयनिर्दहनसमर्थ- ५ त्वाच्चास्य । न हि भगवतः शुक्लध्यानानलो देवच्छंदक एव प्रज्वलति न समवसरणादावित्यभ्युपगमो युक्तः । तत्रम्थम्यास्य ध्यानान्तरप्रसझात् । मुक्तिकालोपार्जितकर्मणां च कथं क्षपणम् , प्रतिक्रमणतश्चेत्, अस्तु, परं भगवतो निर्दोषता दुर्लभा । यः प्रतिक्रमणां करोति नासो निर्दोषः । यथाऽम्मदादिः प्रतिक्रमणां करोति च भगवानिति । कृतदोष- १० निराकरणं हि प्रतिक्रमणं तत्कुर्वतः कथमस्य निर्दोषता स्यात् । अथ तन्न करोति । कथं भुक्तिक्रियातः समुत्पन्नं दोष निराकुर्यात् । आहारकथामात्रेणापि ह्यप्रमत्तोऽपि सन्साधुः प्रमत्तो भवति नार्हन् भुञ्जानोऽपीति मह चित्रम् । दोषवत्त्वे वाऽम्य श्रेणितः पतितत्वान्न केवलभाक्त्वं स्यात् । भुञ्जानोऽसौ पिशितलोचनैन विलोक्यत इत्यत्र च १५ किं कारणम् । बहुलतमतमःपटलप्रच्छादितत्वं काण्डपटाद्यातत्वं विद्याविशेषेण स्वस्य तिरोधानमन्यजनातिशायी माहात्म्यविशेषो वा । तत्राद्यपक्षोऽनुपपन्नः । तद्देहदीप्त्या तमःपटलस्य निर्मूलमुन्मूलितत्वात् । काण्डपटाद्यावृतावयवस्तम्मै कथं भिक्षा दीयेत । विद्याविशेषाभ्युपगमे चाऽस्य विद्याधरादिवन्निग्रन्थताविरोधः । अथान्यजनातिशायी माहात्म्य- २० विशेषः कश्चित्तस्येप्यते येन भुञ्जानो नावलोक्यत इति । नन्वन्यजनातिशायी क्षुदभावलक्षण एवातिशयोऽस्येप्यतां तस्यैव प्रमाणोपपन्नत्वादिति । तदेतन्निखिलमनादिमिथ्यावासनापरवशशेमुषीकस्याही १ शुक्लं शुभस्वाभाविकं सर्वोपाधिबाधारहितं चित्तमन्तःकरणं यस्मिन्ध्याने तध्यानमुपचाराच्छुकम् । २ समवसरन्ति नाना परिणामा जीवाः कथञ्चित्तुच्छतया यस्मिन् तत्समवसरणम् । ३ 'स्वस्थानाद्यत्परस्थानं प्रमादस्य वशाद्गतः । तत्रैव क्रमणं भूयः प्रतिक्रमणमुच्यते ॥' इति । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242