Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. २ स्. २७] स्थाद्वादरत्नाकरसहितः यदि विधीयमानात, तदा तेन शुद्विरोधिना भवितव्यम् । अविरुद्धविधेरभावासाधकत्वात् । न च क्षुद्विरोधः केवलिनि किंचित्प्रतीयते । न च ज्ञानादिगुणा एव तत्र तद्विरोधिन इत्यभिधातुमुचितम् । यतो ज्ञानादिमात्रस्य क्षुधा विरोधस्तद्विशेषस्य वा । यदि ज्ञानादिमात्रस्य तर्हि यथा यथा ज्ञानादयो गुणा विवर्धन्ते तथा तथा क्षुधो हानितारतम्येन भवितव्यम् । ५ प्रकाशविवृद्धाविव तमसः । न चैवमस्ति । न हि बालादौ ज्ञानाद्यपचये क्षुदुपचयस्ततः प्रभृति च ज्ञानाद्युपचये तारतम्येन क्षुदपचयो लक्ष्यते । तन्न ज्ञानादिमात्रस्य क्षुधा विरोधः । अथ ये केवलिगता ज्ञानादयः प्रकर्षपर्यन्तप्राप्तास्तेषामेव क्षुधा विरोधः । तन्न ! तथा प्रतिपत्तुमशक्तेः। नहि केवलिगता ज्ञानादयः क्षुधं विरुन्धन्तीत्यर्वाग्दृशा प्रतिपत्तुं १० शक्यम् । अतीन्द्रियत्वात्तेषाम् । किंचाविकलकारणस्य भगवतोऽन्यभावेऽभावाद्विरोधगतिर्भवति शीतस्पर्शस्येवामिसन्निधौ। एतच्चान दुर्घटम्। केवलिगुणानामतीन्द्रियतयैतत्सन्निधौ क्षुन्न भवतीति प्रतीतेरनुपपत्तेः। तन्न विधीयमानात्कुतश्चित्तत्र क्षुधोऽभावसिद्धिः । निषिध्यमानश्च भावस्तस्याः कार्य कारणं व्यापको वा स्यात् । यदि कार्यम्, तदा १५ तन्निवर्तमानमात्मनिवर्तनसमर्थाया एव क्षुधो निवृत्तिमवगमयेन्न तु सर्वथा । कारणमात्रस्य कार्याभावेऽपि भावाविरोधात् । कारणमपि निवर्तमान कार्य निवर्त्तयति, यथा वहिधूमम् । व्यापकं वा निवर्त्तमानं व्याप्यम्, यथा वृक्षः शिंशपाम् । न चात्र क्षुधः कारणस्य व्यापकस्य वा कस्यचिन्निवृत्तिरस्ति । न च मोहनीयाभावात्क्षुधोऽभावः । २० तस्यास्तत्कार्यत्वस्य तत्स्वभावत्वस्य चासम्भवात् । न हि क्षुन्मोहनीय. कार्या । वेदनीयप्रभवत्वात् । अन्यथा वेदनीयशेषा इत्यागमविरोधापत्तेः। ननु नास्ति विरोधः । न हि वयं वेदनीयस्य क्षुत्कारणत्ववारणं विदध्महे किन्तु मोहनीयमपि तत्र सहकारितया व्यापिपर्तीति ब्रूमहे । न च सहकारिकारणविरहेऽपि कार्योत्पत्तिर्दृष्टचरी । न खलु बीजजला- २५ निलातपसम्पर्के पृथिवीविरहेऽङ्कुरो जायत इति चेत् । नैवम् । मोहनी
"Aho Shrut Gyanam"

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242