Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
प्रमाणनयतत्त्वालोका लङ्कारः
[ परि. २ सू. २७
1
अपि च । उत्कर्षेण देशोनपूर्वकोटिं विहरतः सयोगिकेवलिनस्तावत्कालं शरीरस्थितिर्भुक्तिं विना कथं घटेत । अथाऽनन्तवीर्यत्वात्त विनाऽप्यस्य तत्स्थितिः । तर्द्धायुः कर्मणाऽपि बिना तत्स्थितिप्रसङ्गान्न कदाचिच्छरीराद्यपाय: स्यादिति मोक्षाय दत्तो जलाञ्जलिः । तत्स्थितेरायुःकर्मापेक्षणे वाहारापेक्षणमप्यस्तु । उभयस्यापि तत्कारणत्वाविशेषात् । किं च प्रदीपज्वाला जलधारासमानं शरीरम् । तत्र च यथा तैलक्षये सति न प्रदीपज्वालाऽवतिष्ठते जलागमनमन्तरेण वा जलधारा । तथा शरीरमपि भुक्त्यभावे न स्थितिमास्कन्दति । अथ मुक्तिदोषो यदुपवासादि प्रत्याख्यानं क्रियते । निर्दोषे च केवलिनि १० दोषो विरुद्धः । तर्हि निषद्यागमनं चार्हति न प्राप्नोति । स्थानयोगादिना निषद्यादेः प्रत्याख्यानात् । वचनं च न प्राप्नोति । मौनवृतिकोपलम्भात् । अथ मतमशेषज्ञस्य मांसादिकं पश्यतः कथं भुक्तिरन्तरायोपपत्तेरिति । एतदप्यनल्पतमोविलसितम् । यतोऽन्तरायकमोदयजन्यः परिणामविशेष एवाऽन्तरायशब्देनोच्यते । न च भगवत्यन्तरायकर्मसम्भवः । प्रक्षीणघातिकर्मत्वात्तस्य । भवतु वा कश्चित्स्वकल्पनाशिल्पिनिर्भितोऽन्तरायः । तथाप्यवधिज्ञानिभिः परमर्षिभिरनेकान्तः । ते हि सकलं त्रैलोक्यं पश्यन्ति, अथ च भुञ्जते । अथ यदैवावधिज्ञानोपयोगमवधिज्ञानी करोति तदैवाऽसाववधिज्ञानी तद्विषयभूतमशेषं वस्तु पश्यति नाऽन्यदेति भोजनकाले यद्यसावुपयोगं करोति २० तस्यान्तरायो भवत्येव, न चायं प्रकारः केवलज्ञाने सम्भवति । तस्य सदोपयुक्तत्वादिति चेत् । एवं तर्हि दिव्यपरमाणुरूपं निरन्तराहारग्रहणमप्यस्य न प्राप्नोति । सततोपयोगित्वेन निरन्तरमन्तरायसद्भावात् । अपि च महासामायिकपरिणामवतो भगवतः का नाम पिशितादिदर्शने सति भोजनकरणेऽपि करुणायाः खण्डनेऽपि परिभाव्यता मध्यस्थेनाऽ२५ न्तरात्मना । अथ भुक्तौ जिह्वायां रसप्राप्तेः केवलिनो मतिज्ञानानुषङ्ग १' तत्कालम् ' इति प. पुस्तके पाठः ।
४८०
५
१५
"Aho Shrut Gyanam"

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242