Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. २ सु. २७ ]
स्याद्वादरत्नाकरसहितः
अनन्तवीर्यप्रभृतिप्रणीताः कुहेतवः केवलिमुक्तिसिद्धये ॥
अन्येऽपि ये तेऽपि निवारणीयाः स्वयं सुतर्कोज्ज्वलबुद्धि शौण्डैः ॥ ४३३ ॥
यतः,
--
मिथ्याभिमानानलदग्धबोधैदिगम्बरैः सार्धमनुद्धराणाम् ॥
वेताम्बराणां कलहातिरेकः पदे पदे कीदृश एव भाति || ४३६ ॥ ५ जिनागमार्थानुगमप्रधानः संदर्शितो यस्त्विह तर्कलेशः ॥
स सङ्गतोऽन्यो यदि चेति तत्त्वं विचारयिष्यन्त्यनुयोगवृद्धाः || ४३७||
तदेवं केवलिमुक्तिकारणस्योपपादितत्वात्सिद्धोऽविकलकारणत्वादिति हेतुः । नापि विरुद्धः | सपक्षे वर्तमानत्वात् । नाप्यनैकान्तिकः । सुरसरणिसरोरुहा देर्विपक्षादत्यन्तं व्यावृत्तत्वात् ।
१०.
इत्थं प्रत्यावृत्तं समस्तदूषणकलङ्ककणतोऽपि ॥ साधनमेतन्नूनं केवलिमुक्ति प्रसाधयति ॥ ४३८ ॥
3
अथ चेदमनुमानं केवलिभुक्तौ । विवादः केवली कदाचित्कवलाहारवान् केवलित्ये सति दीर्घतनुस्थितिकेवलिभुक्तावनुमानम् । मत्त्वात्, यः कदाचित्कवलाहारवान्न भवति न १५. केवलिले सति दीर्घतनुस्थितिमान् यथा परमाणुः, न च न केवलित्वे सति दीर्घतनुस्थितिमान्विवादः केवली, तस्माद्यथोदितसाध्यसम्पन्नः । अयोगिकृतसमुद्धात केवलिसिद्धानां पक्षत्वव्यवच्छेदाय विवादग्रहणम् । सदा केवल्याहारवत्त्वप्रसङ्गनिवृत्तये कदाचिदिति साध्यविशेषणम् । दीर्घतनुस्थितिमत्त्वादित्यभिधीयमाने एकेन्द्रियदेवनार - २०कैर्व्यभिचारस्तन्निरासाय केवलित्वे सतीति विशेषणम् । अस्मिन्नेव तु व्याप्रियमाणे सिद्धैरयोगिभिश्चानैकान्तः, तत्प्रतिषेधाय दीर्घेत्याद्युपादानम् । एवं च
अस्मादप्यनुमानात्केवलभुक्तिः प्रयाति सिद्धिपदम् ॥ येनात्राऽपि न किंचिद्दषणमुपलभ्यते सभ्याः || ४३९ ॥
" Aho Shrut Gyanam"
Mig
२५:

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242