Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. २ सू. २७] स्याद्वादरत्नाकरसहितः
४७७ ततश्च केवलिनि तत्कारणस्य पीडाविशेषस्य सद्भावाबुभुक्षाऽस्तीति व्यवह्रियते । एतेन योन्यादिषु रन्तुमिच्छा रिरंसेत्यादि नग्नाटस्य भाण्डविद्यापाण्डित्यं विडम्बितमवसेयम् । यच्चाकाक्षात्वादिति प्राक्तम् । तत्र प्रत्यक्षबाधा पक्षस्य, प्रबलजाज्वल्यमानजाठरजातवेदसः पुंसः प्रतिपक्षभावनालक्षेणाऽपि बुभुक्षाया निवृत्तेरननुभूयमानत्वात् । ततो न बुभुक्षा ५ मोहनीयकार्यम् । यानि चैतानि तेनैवोक्तानि साधनानि । न बुभुक्षावान् केवली,
तद्विरोधिनिर्मोहस्वभावोपेतत्वात्, यो यद्विरोधि. प्रभाचन्द्रकल्पितानां केव-" लिनि बुभुक्षादि प्रतिक्षेप- स्वभावोपेतो नासौ तद्वान्, यथोष्णस्पर्शकानुमानानां खण्डनम् । स्वभावोपेतः कश्चित्प्रदेशो न शीतस्पर्शवान्, १० तथा प्रमयकमलमार्तडे तेनैवोक्तस्य केवली न भुक्तं तथा तद्विरोधिनिर्मोहस्वभावोपेतश्च केवली,
इत्यस्य खण्डनम् । तस्मान्न बुभुक्षावानिति । यद्दःखरूपं न तत्तत्र सम्भवति, यथा कामपीडादि, दुःखरूपा च क्षुदिति । तथा यत्राऽनन्तं सुखं न तत्र दुःखलेशोऽप्यस्ति, यथा सिद्धेषु, अनन्तसुखं चाहतीति । यत्र यद्विरोधि बलवदस्ति न तत्राभ्युदितकारणमपि तद्भवति, यथाऽत्युष्ण- १५ प्रदेशे शीतम्, अस्ति च क्षुद्दःखविरोधि बलवत्केवलिन्यनन्तं सुखमिति । यत्कार्यविरोध्यनिवर्त्य यत्रास्ति तदविकलमपि स्वकार्य न करोति । यथा श्लेमादिविरुद्धानिवर्त्यपित्तादिविकाराक्रान्ते पुरुषे न दध्यादि श्लेष्मादि करोति । वेद्यफलविरुद्धानिवत्वं च सुखं भगवतीति ! तानि सर्वाण्यप्यसिद्धत्वाद्यशेषदोषदुष्टत्वात्साधनाभासानि । २० तथा हि तद्विरोधिनिर्मोहम्वभावोपेतत्वादिति प्रथमसाधनं विशेषणासिद्धम् । तद्विरोधित्वस्याप्रसिद्धेः । न खलु बुभुक्षाया निर्मोहस्वभावेन सार्धं विरोधगन्धोऽप्यस्ति । वीतमोहे भगवति वेदनीयकर्मोदयनिबन्धनाया बुभुक्षायाः प्रसाधितत्वादिति । दुःखरूपत्वाख्यसाधनमप्यनैकान्तिकम् । शीतोष्णबाधया व्यभिचारित्वात् । शीतोष्णबाधा दुःख- २५ रूपाऽथ च भगवति समस्ति । न च तस्या अपि तत्राऽसम्भव इति
"Aho Shrut Gyanam"

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242