Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
४७६
प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २७ साताद्यशुभप्रकृतीनामप्रतिबद्धसामर्थ्यतया स्वकार्यकारित्वोपपत्तेः । यदि चाऽशुभप्रकृतीनां कतिपयानुभागघाते सति प्रतिबद्धसामर्थ्यतया न स्वकार्यकारित्वमित्यास्थीयते । तीस्थिरनामकर्मणोऽशुभप्रकृतित्वेन कतिपयानुभागघातसद्भावात्स्वकार्यकारित्वं न स्यात् । तथा च भगवतः पाणिपादादयोऽवयवाः स्थिरा एव स्युरित्ययोगिगुणस्थानवत्सयोगिगुणस्थानकेऽपि भगवान्निापार एव भवेत् । तथा च कुतस्तीर्थप्रवर्त्तनमिति लाभमिच्छतो मूलोच्छेदः सम्पन्नोऽस्य दिग्वाससः। एतेन तत्कारणमोहाभावादित्यनन्तरोपन्यस्तहेतोर्विशेषणासिद्धिरित्युक्तं भवति।
मोहस्य क्षुत्कारणत्वासिद्धेः । तदभावेऽपि केवल्यवस्थायां क्षुत्संभवस्य १० प्रतिपादितत्वादिति । यदप्यनेनैवोच्यते "न चेयं बुभुक्षा मोहनीयान
पेक्षस्य वेदनीयस्यैव कार्य येनाऽत्यन्तप्रक्षीणमोहेऽपि स्यात् । तथा हि बुभुक्षा मोहनीयानपेक्षस्य वेदनीयस्य कार्य न भवति । इच्छात्वात् । रिरसावत् । भोक्तुमिच्छा बुभुक्षा सा हि कथं वेदनीयस्यैव कार्यम् ।
अन्यथा योन्यादिषु रन्तुमिच्छा रिरंसाऽपि तस्यैव कार्य स्यात् । तथ १५ च कवलाहारवस्त्रयादावपि प्रवृत्तिप्रसङ्गानेश्वरादस्य विशेषः। यथा
परिसा प्रतिपक्षभावनातो निवर्तते । तथा बुभुक्षाऽपि । प्रयोगः भोजनाकांक्षा प्रतिपक्षभावनातो निवर्तते । आकांक्षात्वात् । स्त्रयाद्याकांक्षावत्" इति । तदपि सकलमलीकम् । बुभुक्षा मोहनीयानपेक्षस्य वेदनीयस्य कार्य न भवतीत्यत्र सिद्धसाध्यतावतारात् । नन्वेवं तर्हि भगवत्यपि मोहनीयसद्भावप्रसक्तिः बुभुक्षासद्भावादिति चेत् । न । बुभुक्षासद्भावस्य तत्राऽसिद्धेः । भोक्तुमिच्छा हि बुभुक्षा भोजनाभिलाषरूपा सा कथं निर्मोहे भगवति स्यात् । कथं हन्त तर्हि मुक्तेऽसाविति चेत्, यथैव विवक्षामन्तरेणाऽपि वक्ति । जिगमिषामन्तरेणाऽपि
गच्छति । नन्वेवं कथं बुभुक्षा केवलिनि विद्यत इति तत्र तत्रोद्धो. २५ षणा श्रेयसीति चेत् । कारणे कार्योपचारात् । वेदनीयकम्र्मोदयजन्यपीडाविशेषे हि सति शरीरिणां भोजनाभिलाषरूपा बुभुक्षोपजायते
१ प्र. क. मार्तण्डे ८६॥२॥६.
"Aho Shrut Gyanam"

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242