Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. र सू. २७ ] स्याद्वादरत्नाकरसहितः तस्मात्तत्र साऽस्तीति । न वाऽत्रासिद्धो हेतुः । यतः कवलाहारमुक्तेर्द्विधा कारणं बाह्यमाभ्यन्तरं च । तत्र बाह्यमनशनादि । तत्ताचदस्त्येव । न तत्र कस्यामि विवादः । आभ्यन्तरं पर्याप्तिवेद्यतैजसदीर्घायुष्टोदयलक्षणम् । तदपि विद्यत एव । यतो हि शरीरेन्द्रियादिनिष्पत्तिः सा पर्याप्तिर्नामकर्मविशेषः । वेद्यं सुखदुःखसम्पादकं वेदनीयाख्यं कर्म । ५ तैजसं भुक्तान्नपाकादिकारणामस्वरूपान्तस्तैजसशरीरकारणं नामकमव ! दीर्घमायुश्चिरजीवनकारणं कर्म । एतेषामुदयात्क्षुद्वेदनोपजायते । अस्ति चैतदुदयो भगवति स च भुक्तिकारणमिति । यदाह शाकटायनः "अस्ति च केवलिभुक्तिः समग्रहेतुर्यथा पुरा भुक्तेः । पर्याप्तिवेद्यतैजसदीर्घायुष्कोदयो हेतुः ॥१॥" इति । यत्तु प्रभाचन्द्रेणाभि- १० धीयते 'असिद्धं चाविकलकारणत्वं भुक्तेः । मोहनीयसहायं हि वेद्यादिकर्म क्षुदादिकार्यकरणेऽविकलसामर्थ्य भवति नान्यथा । अतिप्रसङ्गात् । यथैव हि पतिते सैन्यनायके सामथ्र्य सैन्यस्य । तथा मोहविनष्टेऽघातिकर्मणाम् । यथा च निविपीकृत्य मन्त्रिणोपयुज्यमानमपि विषं न दाहमुर्छादि कर्तुं समर्थम् । तथा शुक्लध्यानानलनिध. १५ मोहसहायं वेद्यादिक्षुदादिकम् । प्रयोगः, भगवति बुभुक्षा नास्ति तत्कारणमोहाभावात्, यस्य यत्र यत्कारणाभावो न तत्र कार्य यथाऽनग्निप्रदेशे धूमः। नास्ति चाहति मोह इति ।" तदेतस्यापर्यालोचिताभिधानम् । मोहनीयसहायकविकलस्यापि नामादिकर्मण इव वेदनीयादिकर्मणः स्वकार्यकरणे विरोधाभावात् । अन्यथा नामादिकर्मापि केवलिनि २० तीर्थप्रवर्तनादिस्वकार्यकरणे कौशलं नावलम्बेत । अथ नामादिषु शुभप्रकृतीनां तत्राप्रतिबद्धसामर्थ्यत्वेन स्वकार्यकारित्वं युज्यते । नन्वसातवेद्याद्यशुभप्रकृतीनां भगवति विपाकोदयस्यागमे प्रतिपादनात् । द्वितीयपक्षे तु न काचिन्नः पीडा । कियतोऽप्यनुभागम्य घातेऽप्यसाता
. १ भगवदाचार्यशाकटायनभदन्तकृतकेवलिभुक्तिप्रकरणे श्लो. १. २ प्र. क. मा. ८६११३. ३ अस्मन्मुद्रापितप्रमाणमीमांसायो पृ. १८ टिप्पन्याम् ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242