Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 233
________________ प्रमाणनयतत्वालोकालङ्कारः [ परि. २ सू. २७ वाच्यम् । एकादशजिने परीषहा इत्यागमविरोधादिति । अनन्तसुखवाख्यं तृतीयसाधनमप्यसिद्धम् । निखिलकर्मविप्रमुक्तानां सिद्धानामेव हि तत्सम्भवति नाऽर्हतः । तत्राऽसद्वेद्यसम्पाद्यस्य दुःखस्यापि सम्भवात् । चतुर्थमपि क्षुद्दः खविरोधिवल बदनन्त सुखत्वलक्षणं साधनमसिद्धं ५. अनन्तसुखासम्भवस्य भगवत्यनन्तरमेवाऽभिहितत्वादिति । अत एव पञ्चममपि वेद्यफलविरुद्धानिवर्त्त्यसुखान्वितत्वत्स्वरूपं साधनमसिद्धमेवेत्यकर्णनीयं सकणैः । यदपि स एव प्रेम कमलमार्तण्डे साधनमभिधत्ते स्म । “केवली न भुंक्ते, रागद्वेषाभावान्तवीर्यसद्भावान्यथानुपपत्तेः” इति । तदपि न प्रयोजकम् | रागद्वेषाभावानन्तवीर्यसद्भावयोः केवलिनि १० मुक्तयभावेन सार्धमन्यथानुपपत्तेरसम्भवात् । भुक्त्यभावमन्तरेणापि स्वकारणनिबन्धनयोस्तयोस्तत्र विरोधाभावात् । विद्यते हि केवलिनि रागद्वेषाभावस्य कारणं मोहनीयकर्मप्रलयोऽनन्तवीर्य सद्भावस्य च वीर्यान्तरायकर्मापगम इति । अनन्तत्वं वीर्यस्य पराभ्युपगमेनेह समर्थितम् । असङ्ख्यातत्वस्यैव तत्रागमेऽभिहितत्वादिति । कथं चैवं १५ वादिनोऽस्य केवलिनि वचनगमनादिकमपि घटेत । शक्यं हि वक्तुं न केवली वक्ति न गच्छति न निषीदति च रागद्वेषाभावानन्तवीर्यसद्भावान्यथानुपपत्तेरिति । अथान्यथानुपपत्तिविकलत्वान्नेदं साधनं वचनगमनाद्यभावस्य स्वसाध्यस्य प्रयोजकम् । तथा हि रागद्वेषयोरभावेऽनन्तवीर्यसद्भावेऽपि च तीर्थप्रवर्तन फलतीर्थकृन्नामकर्मोदयलक्षणतः २० स्वकारणादेव भगवति वचनगमनादिकमुपपद्यत एव । अन्यथा तीर्थप्रवृत्तेरुच्छेद एव स्यादिति चेत् । नन्वत एव भवदुपन्यस्तमपि साधनं केवलिमुक्तिप्रतिषेधलक्षणस्य स्वसाध्यस्य प्रयोजकं कथं नाम भवेत् । शक्यमत्रापि ह्येतद्वक्तुं रागद्वेषयोरभावेऽनन्तवीर्यसद्भावेऽपि च दुःखोत्पादफलादसातावेदनीयकमोंदयलक्षणत्तः स्वकारणादेव भगवति कव२५ लाई मुक्तिरुपपद्यत एव | अन्यथा क्षुद्वेदनाप्रतीकार एव न स्यादिति । ४७८ "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242