Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 236
________________ परि. २ सू. २७] स्याद्वादरत्नाकरसहितः ४८१ इत्युच्यते । तन्न वाच्यम् । यतो नेन्द्रियविषयसम्बन्धमात्रेण मतिज्ञानं भवति । किं तर्हि सम्बन्धे मतिज्ञानावरणक्षयोपशमे च सति । एतच्च क्षीणाशेषावरणे केवलिनि नास्तीति न तज्ज्ञानानुषङ्गः । अन्यथा श्रोत्रादीन्द्रियाणां दिव्यतूसंदिरवेण गणधरदेवादिरूपेण सुगन्धिकुसुमधूपवासादिगन्धेन मरुत्सिंहासनस्पर्शेन सम्बन्धेऽपि मति- ५ ज्ञानमनुषज्यते । एवं च। कवलमुक्तिरिय प्रणयाकुला सकलवेदिनमुज्झितुमक्षमाः ॥ क्षपणकाः किमिमां तु सतीमपि प्रकटयन्ति विरुद्धतया ततः॥४४०॥ विक्षिप्ता मानसंख्या परसमयमता व्योमकेशादिकानां - विश्वज्ञत्वं व्यपास्तं निपुणनयवशादर्हतः स्थापितं च ॥ १० मुक्तिं तस्य क्षिपन्तः क्षपणकहतकाः शिक्षिताः किञ्चिदेते __नानाभेदप्रभेदैः परिकरितमतः सिद्धमध्यक्षमत्र ॥४४१॥ श्रीमानस्मानजस्रं स जिनपरिवृढः सुव्रतः सुव्रताख्यः पायादानाम्रशक्रस्फुटमुकुटतटीकोटिघृष्टानिपीठः ।। संसारक्षारपाथःपतिपतितजनोत्तारणं यम्य कामं कुर्वाणस्यैव कान्ते वपुषि परिणता शामिका कान्तिरस्ति ॥४४२॥ अश्यद्भूधरतुङ्गशृङ्गविसरं दृप्यद्भुजङ्गेश्वरं नश्यद्दिक्वरटिस्फुटक्षितितलं क्षुभ्यन्महाम्भानिधि !! वामाङ्गुष्ठविघट्टनेन झटिति स्वर्णाचले दोलिते येनेदं जगदीदृशं समभवज्जीयात्स वीरो जिनः ।। ४४३ ॥ २० १' प्रक्षीण' प, भ. पुस्तकयोः पाठः। २ अनुत्तरज्ञानदर्शनादिधर्मगणं धरतीति गणधरः। ३ संचकास्ति' इति प. भ. पुस्तकयोः पाठः । ४ ततः सिंहासन चाकं चचालाचलनिश्चलम् । प्रयुज्याऽथावधि ज्ञात्वा जन्मान्तिमजिनेशितुः ॥१॥ वज़्येकयोजनां घण्टा सुघोषां नैगमेषिणा। अवादयत्ततो घण्टारगुः सर्वविमानगाः ॥ २ ॥ "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242