Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सु. २५ कस्यास्य प्रलपितम् । तथा हि । यत्तावन्मनोविक्षेपपरिहारेण ध्यानसिध्यर्थमित्यादि पक्षत्रयमुत्थाप्य दूषितम् । तत्र प्रथमतृतीयपक्षौ दूषयता भवता कण्ठशोषः केवलमनुभूतः । अनभ्युपगतोपालम्भात् । निरोधाक्षमतया यथासुखमवस्थानार्थ भगवान्देवच्छन्दके गच्छतीत्ययं तु ५ द्वितीयपक्षः कक्षीक्रियत एव । तत्र च बद्दषणमुक्तमनन्तवीर्यस्य निरोधाक्षमत्वानुपपत्तेरिति । तदनुपपन्नम् । वीर्येऽनन्तत्वस्य क्वचिदप्यात्मन्यप्रसिद्धेः । वीर्यविभागानामसंख्यातत्वेन परमागमे प्रतिपादनात् । भवतु वा कथंचिदनन्तवीर्यत्वं भगवति । तथापि तन्माहात्म्येन शक्ति
क्षयः केवलं न भवति तस्य । यत्तु धर्मदेशनासमयसम्भवियोजनव्यापि१० वाणीविलासपरिश्रमसमुद्भूतासातोदयसम्पाद्यं किञ्चिद्दःख तन्न निवारयितुं पार्यतेऽतस्तदुपशान्तये भगवान्देवच्छन्दके गच्छतीत्युपपन्न पश्यामः । यच्चाऽभिहितमनन्तसुखान्वितस्य दुःखलेशस्याप्यभाक्तो यथासुखमित्यस्यापि दुर्घटत्वादिति । तदप्यघटमानम् । अनन्तसुखा
न्वितत्वस्यैव भगवत्यद्याप्यसिद्धेरित्युक्तप्रायम् । यच्चावाचि । भुञ्जाऽनोसौ १५ पिशितलोचनैर्नावलोक्यत इत्यत्र च किं कारणम्। किं वहलतमतमःपटल
प्रच्छादितत्वमित्यादि । तत्राऽप्यायं विकल्पत्रयमनभ्युपगमादेव प्रतिहतम् । अन्यजनातिशायी माहात्म्यविशेषस्तद्भोजनादर्शने कारणमित्ययं चतुर्थो विकल्पः स्वीक्रियते । तत्र च यद्दषणमुदग्राहि नन्वन्यजनातिशायी क्षुदभावातिशयोऽस्येप्यतां तस्यैव प्रमाणोपपन्नत्वादिति । तत्र हेतोरसिद्धिः । तथाहि प्रमाणमागमोऽन्यद्वा क्षुदभावे भवेत् । न तावदागमः । सिद्धवत्सयोगकेवलिनि क्षुदभावप्रतिपादकस्यागमस्यासम्भवात् । अन्यस्माच प्रमाणात्क्षुदभावः स्वभावानुपलम्मादन्यतो वा स्यात् । न तावत्स्वभावानुपलम्भात् । केवलिनो विप्रकृष्टस्वभावे
भावे स्वभावानुपलम्भोऽयुक्तः । एकज्ञानसंसर्गिपदार्थान्तरोपलम्भलक्षण२५ त्वात्तस्य । अन्यतोऽपि विधीयमानानिषिध्यमानाद्वा तन्निषेधः स्यात् ।
१ सूत्रकृताङ्गे प्रथमश्रु, स्कं. अ. ८.
"Aho Shrut Gyanam"

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242